Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1803

1875 Mantra
Devata- इन्द्रः Rishi- सुदासः पैजवनः Chhand- शक्वरी Swara- धैवतः
Mantra with Swara
वि꣢꣯ षु विश्वा꣣ अ꣡रा꣢तयो꣣ऽर्यो꣡ न꣢शन्त नो꣣ धि꣡यः꣢ । अ꣡स्ता꣢सि꣣ श꣡त्र꣢वे व꣣धं꣡ यो न꣢꣯ इन्द्र꣣ जि꣡घा꣢ꣳसति । या꣡ ते꣢ रा꣣ति꣢र्द꣣दि꣢꣫र्वसु꣣ न꣡भ꣢न्तामन्य꣣के꣡षां꣢ ज्या꣣का꣢꣫ अधि꣣ ध꣡न्व꣢सु ॥१८०३॥

वि꣢ । सु । वि꣡श्वा꣢꣯ । अ꣡रा꣢꣯तयः । अ । रा꣣तयः । अर्यः꣢ । न꣣शन्त । नः । धि꣡यः꣢꣯ । अ꣡स्ता꣢꣯ । अ꣣सि । श꣡त्र꣢꣯वे । व꣣ध꣢म् । यः । नः꣣ । इन्द्र । जि꣡घा꣢꣯ꣳसति । या । ते꣣ । रातिः꣢ । द꣣दिः꣢ । व꣡सु꣢꣯ । न꣡भ꣢꣯न्ताम् । अ꣣न्यके꣡षा꣢म् । अ꣣न् । यके꣡षा꣢म् । ज्या꣣काः꣢ । अ꣡धि꣢꣯ । ध꣡न्व꣢꣯सु ॥१८०३॥

Mantra without Swara
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः । अस्तासि शत्रवे वधं यो न इन्द्र जिघाꣳसति । या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

वि । सु । विश्वा । अरातयः । अ । रातयः । अर्यः । नशन्त । नः । धियः । अस्ता । असि । शत्रवे । वधम् । यः । नः । इन्द्र । जिघाꣳसति । या । ते । रातिः । ददिः । वसु । नभन्ताम् । अन्यकेषाम् । अन् । यकेषाम् । ज्याकाः । अधि । धन्वसु ॥१८०३॥

Samveda - Mantra Number : 1803
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विश्वाः) सर्वाः (अर्यः) आक्रान्त्र्यः (अरातयः) अदात्र्यः शत्रुसेनाः विघ्नसेनाश्च (सु) सम्यक् (वि नशन्त) विनश्यन्तु, (नः) अस्मान् (धियः) योगस्य धारणाध्यानसमाधयः प्राप्नुवन्तु। हे (इन्द्र) जगदीश्वर ! (यः) शत्रुः (नः) अस्मान् (जिघांसति) हन्तुमिच्छति तस्मै (शत्रवे) रिपवे कामक्रोधादिकाय, त्वम् (वधम्) मृत्युम् (अस्ता असि) प्रक्षेप्ता भवसि। (या ते) तव (रातिः) दानप्रवृत्तिः अस्ति, सा अस्मभ्यम् (वसु) निवासकं दिव्यमैश्वर्यम् (ददिः) दात्री भवतु। (अन्यकेषाम्) शत्रूणाम् (धन्वसु अधि) धनुःषु अधिरोपिताः (ज्याकाः) प्रत्यञ्चाः (नभन्ताम्) त्रुट्यन्ताम्, ते निःसाधना असहायाः सन्तो विनश्यन्तामिति भावः। [अर्यः, ‘अरी’ इति दीर्घान्तस्य जसि रूपम्। अनशन्त, णश अदर्शने,लोडर्थे लुङि अडागमाभावश्छान्दसः । व्यत्ययेनात्मनेपदम्। ददिः,ददातेः ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इति किः प्रत्ययः] ॥३॥
Essence
यथा राजा सेनापतिर्वा शत्रून् हत्वा प्रजाभ्यो धनादिकं प्रयच्छति तथैवाध्यात्ममार्गे बाधकभूतान् विघ्नान् कामक्रोधादिशत्रूंश्च विनाश्य जगदीश्वरो दिव्यमैश्वर्यमुपासकाय प्रयच्छति ॥३॥
Subject
अथ परमात्मनः शत्रुविनाशकत्वं धनदत्वं चाह।