Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1802

1875 Mantra
Devata- इन्द्रः Rishi- सुदासः पैजवनः Chhand- शक्वरी Swara- धैवतः
Mantra with Swara
त्व꣢꣫ꣳ सिन्धू꣣ꣳर꣡वा꣢सृजोऽध꣣रा꣢चो꣣ अ꣢ह꣣न्न꣡हि꣢म् । अ꣣शत्रु꣡रि꣢न्द्र जज्ञिषे꣣ वि꣡श्वं꣢ पुष्यसि꣣ वा꣡र्य꣢म् । तं꣢ त्वा꣣ प꣡रि꣢ ष्वजामहे꣣ न꣡भ꣢न्तामन्य꣣के꣡षां꣢ ज्या꣣का꣢꣫ अधि꣣ ध꣡न्व꣢सु ॥१८०२॥

त्व꣢म् । सि꣡न्धू꣢꣯न् । अ꣡व꣢꣯ । अ꣡सृजः । अधरा꣡चः꣢ । अ꣡ह꣢꣯न् । अ꣡हि꣢꣯म् । अ꣣शत्रुः꣢ । अ꣣ । शत्रुः꣢ । इ꣣न्द्रः । जज्ञिषे । वि꣡श्व꣢꣯म् । पु꣣ष्यसि । वा꣡र्य꣢꣯म् । तम् । त्वा꣣ । प꣡रि꣢꣯ । स्व꣣जामहे । न꣡भ꣢꣯न्ताम् । अ꣣न्यके꣡षा꣢म् । अ꣣न् । यके꣡षा꣢म् । ज्या꣡काः꣢ । अ꣡धि꣢꣯ । ध꣡न्व꣢꣯सु ॥१८०२॥

Mantra without Swara
त्वꣳ सिन्धूꣳरवासृजोऽधराचो अहन्नहिम् । अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् । तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

त्वम् । सिन्धून् । अव । असृजः । अधराचः । अहन् । अहिम् । अशत्रुः । अ । शत्रुः । इन्द्रः । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । अन् । यकेषाम् । ज्याकाः । अधि । धन्वसु ॥१८०२॥

Samveda - Mantra Number : 1802
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदीश्वर ! (त्वम् अहिम्) आनन्दवृष्टिबाधकं विघ्नसमूहम् (अहन्) हंसि, ततश्च (सिन्धून्) आनन्दप्रवाहान् (अधराचः) अधरं जीवात्मानं प्रति गमनशीलान् कृत्वा (अवासृजः) अवसृजसि विमुञ्चसि। त्वम् (अशत्रुः) निःसपत्नः (जज्ञिषे) जातोऽसि। त्वम् (विश्वम्) सर्वम् (वार्यम्) वरणीयम् उपासकजनम् (पुष्यसि) पुष्णासि। (तं त्वा) तादृशं त्वाम्, वयम् (परिष्वजामहे) आश्लिष्यामः। तथा कुरु येन (अन्यकेषाम्) शत्रूणाम् (धन्वसु अधि) धनुःषु अधिरोपिताः (ज्याकाः) प्रत्यञ्चाः (नभन्ताम्) त्रुट्यन्ताम् ॥२॥
Essence
यथा सूर्यो वृष्टिप्रतिबन्धकं हत्वा मेघेभ्यो वारिधारा विमुच्य सर्वं प्राणिजातमोषध्यादिकं च पुष्णाति, यथा वा कश्चित् सेनापतिरैश्वर्यप्रतिबन्धकं शत्रुं हत्वा राष्ट्रे ऐश्वर्यधाराः प्रवाह्य प्रजां पुष्णाति तथैव जगदीश्वर आनन्दप्रतिबन्धकं विघ्नसमूहं विहत्योपासकस्यान्तरात्ममानन्दधाराप्रवाहेण तं परिपोषयति ॥२॥
Subject
अथ परमात्मनो निःसपत्नत्वं वर्ण्यते।