Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1801

1875 Mantra
Devata- इन्द्रः Rishi- सुदासः पैजवनः Chhand- शक्वरी Swara- धैवतः
Mantra with Swara
प्रो꣡ ष्व꣢स्मै पुरोर꣣थ꣡मिन्द्रा꣢꣯य शू꣣ष꣡म꣢र्चत । अ꣣भी꣡के꣢ चिदु लोक꣣कृ꣢त्स꣣ङ्गे꣢ स꣣म꣡त्सु꣢ वृत्र꣣हा꣢ । अ꣣स्मा꣡कं꣢ बोधि चोदि꣣ता꣡ नभ꣢꣯न्तामन्य꣣के꣡षां꣢ ज्या꣣का꣢꣫ अधि꣣ ध꣡न्व꣢सु ॥१८०१॥

प्र꣢ । उ꣣ । सु꣢ । अ꣣स्मै । पुरोरथ꣢म् । पु꣣रः । रथ꣢म् । इ꣡न्द्रा꣢꣯य । शू꣣ष꣢म् । अ꣣र्चत । अभी꣡के꣢ । चि꣣त् । उ । लोककृ꣢त् । लो꣣क । कृ꣢त् । सङ्गे꣡ । स꣣म् । गे꣢ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । अ꣣स्मा꣡क꣢म् । बो꣣धि । चोदिता꣢ । न꣡भ꣢꣯न्ताम् । अ꣣न्यके꣡षा꣢म् । अ꣣न् । यके꣡षा꣢म् । ज्या꣣काः꣢ । अ꣡धि꣢꣯ । ध꣡न्व꣢꣯सु ॥१८०१॥

Mantra without Swara
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रहा । अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

प्र । उ । सु । अस्मै । पुरोरथम् । पुरः । रथम् । इन्द्राय । शूषम् । अर्चत । अभीके । चित् । उ । लोककृत् । लोक । कृत् । सङ्गे । सम् । गे । समत्सु । स । मत्सु । वृत्रहा । वृत्र । हा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । अन् । यकेषाम् । ज्याकाः । अधि । धन्वसु ॥१८०१॥

Samveda - Mantra Number : 1801
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (अस्मै इन्द्राय) एतस्मै जगदीश्वराय, अस्य जगदीश्वरस्य महिमानं गातुमित्यर्थः, (पुरोरथम्) येन रथः सर्वेषां पुरः तिष्ठति तादृशम्, सर्वाग्रगन्तृत्वहेतुमित्यर्थः (शूषम्) अस्य बलम् (प्र अर्चत उ) प्रशंसत ! सः (अभीके चित् उ) स्वसख्युः उपरि आक्रमणे जाते (लोककृत्) तस्य विजयकर्ता जायते। (समत्सु) देवासुरसंग्रामेषु (सङ्गे) संघट्टे सति (वृत्रहा) पापादीनां शत्रूणां हन्ता भवति। स जगदीश्वरः (अस्माकम्) वीराणाम् अस्माकम् (चोदिता) प्रेरकः सन् (बोधि) अस्मान् उद्बोधयेत्। [बुध अवगमने, ण्यर्थगर्भः, विध्यर्थे लुङ्, अडभावश्च] (धन्वसु अधि) धनुःषु अधिरोपिताः (अन्यकेषाम्) शत्रूणाम् (ज्याकाः) प्रत्यञ्चाः (नभन्ताम्) त्रुट्यन्ताम्, ते निःसाधना भूत्वा पराजीयन्तामिति भावः। [नभ हिंसायाम्, भ्वादिः] ॥१॥ अत्र श्लेषेण जीवात्मपरः सेनापतिपरश्चाप्यर्थोऽध्यवसेयः ॥१॥
Essence
यथा वीरः सेनापतिराक्रान्तॄन् शत्रून् हत्वा स्वराष्ट्रस्य विजयं कारयति तथैव परमेश्वरः पापविघ्नादिरूपान् रिपून् विनाश्य स्वोपासकान् विजयिनः करोति ॥१॥
Subject
तत्रादौ परमात्मनः शत्रुविनाशगुणः प्रशस्यते।