Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1800

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
भू꣢रि꣣ हि꣢ ते꣣ स꣡व꣢ना꣣ मा꣡नु꣢षेषु꣣ भू꣡रि꣢ मनी꣣षी꣡ ह꣢वते꣣ त्वा꣢मित् । मा꣢꣫रे अ꣣स्म꣡न्म꣢घव꣣ञ्ज्यो꣡क्कः꣢ ॥१८००॥

भू꣡रि꣢꣯ । हि । ते꣢ । स꣡व꣢꣯ना । मा꣡नु꣢꣯षेषु । भू꣡रि꣢꣯ । म꣣नीषी꣢ । ह꣣वते । त्वा꣢म् । इत् । मा । आ꣣रे꣢ । अ꣢स्म꣢त् । म꣣घवन् । ज्यो꣢क् । क꣣रि꣡ति꣢ ॥१८००॥

Mantra without Swara
भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् । मारे अस्मन्मघवञ्ज्योक्कः ॥

भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वाम् । इत् । मा । आरे । अस्मत् । मघवन् । ज्योक् । करिति ॥१८००॥

Samveda - Mantra Number : 1800
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश ! (मानुषेषु) मनुष्येषु (ते) तव (सवना) सवनानि आनन्दप्रदानानि (भूरि हि) भूरीणि खलु वर्तन्ते। (मनीषी) मनस्वी जनः (त्वाम् इत्) त्वामेव (भूरि) बहु (हवते) आह्वयति। हे (मघवन्) धनाधिप ! त्वम् स्वात्मानम् (अस्मत्) अस्माकं सकाशात् (ज्योक्) चिरम् (आरे) दूरे (मा कः) मा कार्षीः। [करोतेर्लुङि ‘मन्त्रे घसह्वर०’ अ० २।४।८० इति च्लेर्लुक्] ॥३॥२
Essence
उपास्योपासकयोः सामीप्येनैवोपासना फलवती जायते ॥३॥ अस्मिन् खण्डे जीवात्मनः परमात्मन आचार्यस्य धनदानस्योपास्योपासकयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्विज्ञेया ॥
Subject
अथ पुनरपि स एव विषय उच्यते।