Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 180

1875 Mantra
Devata- इन्द्रः Rishi- मधुच्छन्दा वैश्वामित्रः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
इ꣢꣯न्द्रेहि꣣ म꣡त्स्यन्ध꣢꣯सो꣡ वि꣡श्वे꣢भिः सोम꣣प꣡र्व꣢भिः । म꣣हा꣡ꣳ अ꣢भि꣣ष्टि꣡रोज꣢꣯सा ॥१८०॥

इ꣡न्द्र꣢꣯ । आ । इ꣣हि । म꣡त्सि꣢꣯ । अ꣡न्ध꣢꣯सः । वि꣡श्वे꣢꣯भिः । सो꣣म꣡पर्व꣢भिः । सो꣣म । प꣡र्व꣢꣯भिः । म꣣हा꣢न् । अ꣣भिष्टिः꣢ । ओ꣡ज꣢꣯सा ॥१८०॥

Mantra without Swara
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । महाꣳ अभिष्टिरोजसा ॥

इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वभिः । सोम । पर्वभिः । महान् । अभिष्टिः । ओजसा ॥१८०॥

Samveda - Mantra Number : 180
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (इन्द्र) दुर्गुणविदारक सद्गुणप्रदायक परमेश्वर ! त्वम् (आ इहि) अस्माकं जीवनयज्ञम् आगच्छ, (अन्धसः) अस्मत्पुरुषार्थरूपाद् अन्नात्। अन्धः इति अन्ननाम। निघं० २।७। (विश्वेभिः) समस्तैः (सोमपर्वभिः) भक्तिसमारोहैश्च (मत्सि) हृष्टो भव। मदी हर्षे दिवादिः, लोटि बहुलं छन्दसि।’ अ० २।४।७३ इति श्यनो लुक्। मद्धि इति प्राप्ते, सर्वे विधयश्छन्दसि विकल्प्यन्ते इति सेर्हिरादेशो न भवति। त्वम् (महान्) महिमवान्, किञ्च (ओजसा) बलेन (अभिष्टिः२) अस्माकं कामादिरिपून् प्रति आक्रान्ता, वर्तसे इति शेषः। अभि पूर्वात् इष गतौ धातोः मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः। अ० ३।३।९६ इति भावे विहितः क्तिन् अत्र बाहुलकात् कर्तरि ज्ञेयः। अभीष्टिः इति प्राप्ते एमन्नादिषु छन्दसि पररूपं वाच्यम्।’ अ० ६।१।९४ वा० इति पररूपम् ॥ अथ द्वितीयः—विद्वत्परः। हे (इन्द्र) विद्यैश्वर्ययुक्त विद्वन् ! त्वम् (आ इहि) आगच्छ, (अन्धसः) सात्त्विकाद् अन्नात्, (विश्वेभिः) समस्तैः (सोमपर्वभिः) बलवृद्धिकरीणां सोमाद्योषधीनां खण्डैश्च (मत्सि) तृप्यस्व। त्वम् (महान्) महागुणोपेतः, किञ्च (ओजसा) विद्याबलेन (अभिष्टिः) अभीष्टानां प्रापयिता यद्वा समाजस्य अविद्यादुराचारादिदुर्गुणान् प्रति आक्रान्ता भव इति शेषः ॥६॥३ अत्र श्लेषालङ्कारः ॥६॥
Essence
यथा पुरुषार्थेन भक्त्या च प्रसादितः परमेश्वरो मनुष्याणां कामक्रोधहिंसोपद्रवादीन् सर्वान् रिपून् क्षणेनैव विद्रावयति, तथा विद्वान् जनः सात्त्विकपुष्टिप्रदान्नौषध्यादिभिः परिपुष्टः सन् राष्ट्रादविद्यादीन् दुर्गुणान् सद्य एव विद्रावयेत् ॥६॥
Subject
अथेन्द्रनाम्ना परमेश्वरो विद्वांश्चाहूयते।
Footnote
१. ऋ० १।९।१, य० ३३।२५, अथ० २०।७१।७। २. अभिष्टिः आभिमुख्येन यष्टव्यः अभ्येषणशीलो वा शत्रूणाम्—इति वि०। अभिष्टोता अभिगन्ता शत्रूणाम्। अभिपूर्वाद् इषेः गतिकर्मणोऽभिष्टिः—इति भ०। अभीष्टिः शत्रूणामभिभविता—इति सा०। अभितः सर्वतो ज्ञाता ज्ञापयिता मूर्तद्रव्यप्रकाशको वा इति ऋ० १।९।१। भाष्ये, अभियष्टव्यः सर्वतः पूज्यः इति च य० ३३।२५ भाष्ये द०। ३. मन्त्रोऽयं दयानन्दर्षिणा ऋग्भाष्ये परमेश्वरपक्षे सूर्यपक्षे च, यजुर्भाष्ये च विद्वत्पक्षे व्याख्यातः।