Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1799

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
न꣢ ते꣣ गि꣢रो꣣ अ꣡पि꣢ मृष्ये तु꣣र꣢स्य꣣ न꣡ सु꣢ष्टु꣣ति꣡म꣢सु꣣꣬र्य꣢꣯स्य वि꣣द्वा꣢न् । स꣡दा꣢ ते꣣ ना꣡म꣢ स्वयशो विवक्मि ॥१७९९॥

न । ते꣣ । गि꣡रः꣢꣯ । अ꣡पि꣢꣯ । मृ꣣ष्ये । तुर꣡स्य꣢ । न । सु꣣ष्टुति꣢म् । सु꣣ । स्तुति꣢म् । अ꣣सुर्य꣢स्य । अ꣣ । सुर्यस्य । वि꣣द्वा꣢न् । स꣡दा꣢꣯ । ते꣣ । ना꣡म꣢꣯ । स्वय꣣शः । स्व । यशः । विवक्मि ॥१७९९॥

Mantra without Swara
न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् । सदा ते नाम स्वयशो विवक्मि ॥

न । ते । गिरः । अपि । मृष्ये । तुरस्य । न । सुष्टुतिम् । सु । स्तुतिम् । असुर्यस्य । अ । सुर्यस्य । विद्वान् । सदा । ते । नाम । स्वयशः । स्व । यशः । विवक्मि ॥१७९९॥

Samveda - Mantra Number : 1799
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश ! (तुरस्य) दोषाणां हिंसकस्य (ते) तव (गिरः) कर्तव्योपदेशात्मिका वाचः, अहम् (न अपि मृष्ये२) न परित्यजामि, न उपेक्षे। तव (असुर्यस्य) बलस्य (विद्वान्) ज्ञाता अहम् (सुष्टुतिम्) त्वदीयां सुस्तुतिमपि (न) न अपिमृष्ये परित्यजामि। (सदा) सर्वदा (ते) तव (स्वयशः) स्वकीर्तिमत् (नाम) नाम (विवक्मि) वच्मि। [तुरस्य तुर्वति हिनस्ति दोषानिति तुरः, तुर्वी हिंसार्थः। असुर्यस्य, असुरः प्राणवान्, मत्वर्थे रः, असुरस्य स्वम् असुर्यम् बलम्। ‘असुरस्य स्वम्’ अ० ४।४।१२३ इति यत्। विवक्मि, वच परिभाषणे अदादिः, ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुः] ॥२॥३
Essence
परमेशनामस्मरणेन तदुपासनेन च सर्वे दोषाः क्षीयन्ते, सद्गुणास्तेजांसि बलानि यशांसि च समागच्छन्ति ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।