Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1798

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
श्रु꣣धी꣡ हवं꣢꣯ विपिपा꣣न꣢꣫स्याद्रे꣣र्बो꣢धा꣣ वि꣢प्र꣣स्या꣡र्च꣢तो मनी꣣षा꣢म् । कृ꣣ष्वा꣢꣫ दुवा꣣ꣳस्य꣡न्त꣢मा꣣ स꣢चे꣣मा꣢ ॥१७९८॥

श्रु꣣धि꣢ । ह꣡व꣢꣯म् । वि꣡पिपान꣡स्य꣢ । वि꣢ । पिपान꣡स्य꣢ । अ꣡द्रेः꣢꣯ । अ । द्रेः꣣ । बो꣡ध꣢꣯ । वि꣡प्र꣢꣯स्य । वि । प्र꣣स्य । अ꣡र्च꣢꣯तः । म꣣नीषा꣢म् । कृ꣣ष्व꣢ । दु꣡वा꣢꣯ꣳसि । अ꣡न्त꣢꣯मा । स꣡चा꣢꣯ । इ꣣मा꣢ ॥१७९८॥

Mantra without Swara
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् । कृष्वा दुवाꣳस्यन्तमा सचेमा ॥

श्रुधि । हवम् । विपिपानस्य । वि । पिपानस्य । अद्रेः । अ । द्रेः । बोध । विप्रस्य । वि । प्रस्य । अर्चतः । मनीषाम् । कृष्व । दुवाꣳसि । अन्तमा । सचा । इमा ॥१७९८॥

Samveda - Mantra Number : 1798
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश्वर ! त्वम् (विपिपानस्य) ज्ञानकर्मरसं विशेषेण पीतवतः (अद्रेः) अविनश्वरस्य जीवात्मनः (हवम्) आह्वानम् (श्रुधि) शृणु, (अर्चतः) पूजकस्य (विप्रस्य) मेधाविनो विदुषः (मनीषाम्) स्तुतिम् (बोध) बुध्यस्व। सम्प्रति स्तोता सम्बोध्यते—हे स्तोतः ! त्वम् (सचा) अन्यैः स्तोतृभिः सह (इमा) इमानि (अन्तमा) अन्तमानि अन्तिकतमानि (दुवांसि) परिचरणानि (इन्द्राय) जगदीश्वराय (कृष्व) कुरु। [विपिपानस्य विपूर्वः पा पाने, लिटः कानच्। अद्रेः, न दीर्यते इत्यद्रिः तस्य। ‘अन्तमा, इमा’ अत्र ‘शेश्छन्दसि बहुलम्’। अ० ६।१।७० इत्यनेन शसः शेर्लोपः। कृष्व, डुकृञ् करणे लोटि विकरणाभावश्छान्दसः। संहितायां ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः] ॥१॥२
Essence
हार्दिकानि निश्छलान्येवोपासनानि परमेश्वरः स्वीकरोति, छलछिद्रोपेतानि कृत्रिमाणि न ॥१॥
Subject
अथोपास्योपासकविषयमाह।