Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1797

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
शि꣡क्षे꣢य꣣मि꣡न्म꣢हय꣣ते꣢ दि꣣वे꣡दि꣢वे रा꣣य꣡ आ कु꣢꣯हचि꣣द्वि꣡दे꣢ । न꣢꣯ हि त्वद꣣न्य꣡न्म꣢घवन्न꣣ आ꣢प्यं꣣ व꣢स्यो꣣ अ꣡स्ति꣢ पि꣣ता꣢ च꣣ न꣢ ॥१७९७॥

शि꣡क्षे꣢꣯यम् । इत् । म꣣हयते꣢ । दि꣣वे꣡दि꣢वे । दि꣡वे꣢ । दि꣣वे । रायः꣢ । आ । कु꣣हचिद्वि꣡दे꣢ । कु꣣हचित् । वि꣡दे꣢꣯ । न । हि । त्वत् । अ꣣न्य꣢त् । अ꣣न् । य꣢त् । म꣣घवन् । नः । आ꣡प्य꣢꣯म् । व꣡स्यः꣢꣯ । अ꣡स्ति꣢꣯ । पि꣣ता꣢ । च꣣ । न꣢ ॥१७९७॥

Mantra without Swara
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे । न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥

शिक्षेयम् । इत् । महयते । दिवेदिवे । दिवे । दिवे । रायः । आ । कुहचिद्विदे । कुहचित् । विदे । न । हि । त्वत् । अन्यत् । अन् । यत् । मघवन् । नः । आप्यम् । वस्यः । अस्ति । पिता । च । न ॥१७९७॥

Samveda - Mantra Number : 1797
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
यदि अहं धनपतिर्भवेयं तर्हि (कुहचिद्विदे२) यत्र कुत्रापि विद्यमानाय (महयते) परमेश्वरपूजकाय समाजसेवकाय जनाय। [महयतिः अर्चतिकर्मा। निघं० ३।१४।] (दिवेदिवे) प्रतिदिनम् (रायः) धनानि (आ शिक्षेयम् इत्) दद्याम् एव। [शिक्षतिः ददातिकर्मा। निघं० ३।२०।] हे (मघवन्) धनाधिप परमात्मन् ! (त्वद् अन्यत्) त्वद्भिन्नं किञ्चित् (नः) अस्माकम् (आप्यम्) प्राप्तव्यम् किञ्च (वस्यः) अतिशयेन आच्छादयितृ, शरणप्रदमित्यर्थः (नहि) नैव (अस्ति) विद्यते, (पिता च) पितृवत् पालकश्चापि (न) न विद्यते ॥२॥३
Essence
दानं सदा सुपात्र एव देयं न तु कुपात्रे ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।