Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1796

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
य꣡दि꣢न्द्र꣣ या꣡व꣢त꣣स्त्व꣢मे꣣ता꣡व꣢द꣣ह꣡मीशी꣢य । स्तो꣣ता꣢र꣣मि꣡द्द꣢धिषे रदावसो꣣ न꣡ पा꣢प꣣त्वा꣡य꣢ रꣳसिषम् ॥१७९६॥

य꣢त् । इ꣣न्द्र । या꣡व꣢꣯तः । त्वम् । ए꣣ता꣡व꣢त् । अ꣣ह꣢म् । ई꣡शी꣢꣯य । स्तो꣣ता꣡र꣢म् । इत् । द꣣धिषे । रदावसो । रद । वसो । न꣢ । पा꣣पत्वा꣡य꣢ । र꣣ꣳसिषम् ॥१७९६॥

Mantra without Swara
यदिन्द्र यावतस्त्वमेतावदहमीशीय । स्तोतारमिद्दधिषे रदावसो न पापत्वाय रꣳसिषम् ॥

यत् । इन्द्र । यावतः । त्वम् । एतावत् । अहम् । ईशीय । स्तोतारम् । इत् । दधिषे । रदावसो । रद । वसो । न । पापत्वाय । रꣳसिषम् ॥१७९६॥

Samveda - Mantra Number : 1796
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदीश्वर ! (यावतः) यावत्परिमाणस्य धनस्य (त्वम्) त्वम् (ईशिषे) अधीश्वरोऽसि (एतावद्) एतावतः धनस्य यदि (अहम् ईशीय) अधीश्वरो भवेयम्, तर्हि हे (रदावसो) धनदातः ! अहम् (स्तोतारम् इत्) तवोपासकमेव, तेन धनेन (दधिषे) धारयेयम्, (पापत्वाय) पापकर्मणे (न रंसिषम्) नैव दद्याम् ॥१॥२
Essence
मनुष्यः सत्पात्रायैव धनादिकं प्रयच्छेत्, पापवृद्धये कदापि न दद्यात् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३१० क्रमाङ्के व्याख्यातपूर्वा। दानं कस्मै देयमित्याह।