Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1795

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
इ꣢न्द्रं꣣ वा꣢णी꣣र꣡नु꣢त्तमन्युमे꣣व꣢ स꣣त्रा꣡ राजा꣢꣯नं दधिरे꣣ स꣡ह꣢ध्यै । ह꣡र्य꣢श्वाय बर्हया꣣ स꣢मा꣣पी꣢न् ॥१७९५॥

इ꣡न्द्र꣢꣯म् । वा꣡णीः꣢꣯ । अ꣡नु꣢꣯त्तमन्युम् । अ꣡नु꣢꣯त्त । म꣣न्युम् । एव꣡ । स꣣त्रा꣢ । रा꣡जा꣢꣯नम् । द꣣धिरे । स꣡ह꣢꣯ध्यै । ह꣡र्य꣢꣯श्वाय । ह꣡रि꣢꣯ । अ꣣श्वाय । बर्हय । स꣢म् । आ꣣पी꣢न् ॥१७९५॥

Mantra without Swara
इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै । हर्यश्वाय बर्हया समापीन् ॥

इन्द्रम् । वाणीः । अनुत्तमन्युम् । अनुत्त । मन्युम् । एव । सत्रा । राजानम् । दधिरे । सहध्यै । हर्यश्वाय । हरि । अश्वाय । बर्हय । सम् । आपीन् ॥१७९५॥

Samveda - Mantra Number : 1795
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अनुत्तमन्युम्) न नुत्तो बाधितो मन्युस्तेजो यस्य तादृशम् (राजानम्) यशसा प्रदीप्तम् (इन्द्रम् एव) परमात्मानमेव आचार्यमेव वा (वाणीः) वाण्यः, स्तोतॄणां शिष्याणां वा वाचः (सहध्यै) विघ्नानां दोषाणां वा अभिभवाय। [षह अभिभवे, तुमर्थे अध्यैन् प्रत्ययः।] (सत्रा) उपासनासत्रे, विद्यासत्रे वा (दधिरे) नेतृरूपेण स्थापयन्ति। हे मनुष्य ! त्वम् (हर्यश्वाय) हरयः परस्पराकर्षणयुक्ता हरयः सूर्यचन्द्रभूमण्डलादयो लोकाः यस्य तस्मै परमात्मने, जितेन्द्रियाय आचार्याय च, तादृशं परमात्मानमाचार्यं च प्राप्तुमित्यर्थः (आपीन्) बन्धून् (संबर्हय) सम्प्रेरय ॥३॥२
Essence
विद्यायज्ञे गुरुमुपासनायज्ञे च परमेश्वरं प्राप्य मनुष्यैः स्वसमीहितानि साध्यानि ॥३॥
Subject
अथ पुनरपि स एव विषय उच्यते।