Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1794

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
उ꣣रुव्य꣡च꣢से म꣣हि꣡ने꣢ सुवृ꣣क्ति꣢मिन्द्रा꣢꣯य꣣ ब्र꣡ह्म꣢ जनयन्त꣣ वि꣡प्राः꣢ । त꣡स्य꣢ व्र꣣ता꣢नि꣣ न꣡ मि꣢नन्ति꣣ धी꣡राः꣢ ॥१७९४॥

उ꣣रुव्य꣡च꣢से । उ꣣रु । व्य꣡च꣣से । म꣣हि꣡ने꣢ । सु꣣वृक्ति꣢म् । सु꣣ । वृक्ति꣢म् । इ꣡न्द्रा꣢꣯य । ब्र꣡ह्म꣢꣯ । ज꣣नयन्त । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । त꣡स्य꣢꣯ । व्र꣣ता꣡नि꣢ । न । मि꣣नन्ति । धी꣡राः꣢꣯ ॥१७९४॥

Mantra without Swara
उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः । तस्य व्रतानि न मिनन्ति धीराः ॥

उरुव्यचसे । उरु । व्यचसे । महिने । सुवृक्तिम् । सु । वृक्तिम् । इन्द्राय । ब्रह्म । जनयन्त । विप्राः । वि । प्राः । तस्य । व्रतानि । न । मिनन्ति । धीराः ॥१७९४॥

Samveda - Mantra Number : 1794
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उरुव्यचसे) विद्यादिषु बहुव्याप्तये (महिने) महते (इन्द्राय) परमात्मने आचार्याय च, तयोः प्रसादायेत्यर्थः (विप्राः) विद्वांसो जनाः (सुवृक्तिम्) शोभनां क्रियाम् (ब्रह्म) ज्ञानसंग्रहं च (जनयन्त) जनयन्ति। (धीराः) प्रज्ञावन्तः ते (तस्य) इन्द्रस्य परमात्मनः आचार्यस्य वा (व्रतानि) नियमान् (न मिनन्ति) न भञ्जन्ति ॥२॥२
Essence
बुद्धिमद्भिर्जनैः परमात्मनाऽऽचार्येण च निर्धारिता नियमाः सदैव पालनीयास्तद्द्वारा च प्रेयोमार्गे श्रेयोमार्गे च स्वोन्नतिर्विधेया ॥२॥
Subject
अथ पुनरपि परमात्मन आचार्यस्य च विषय उच्यते।