Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1793

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्र꣡ वो꣢ म꣣हे꣡ म꣢हे꣣वृ꣡धे꣢ भरध्वं꣣ प्र꣡चे꣢तसे꣣ प्र꣡ सु꣢म꣣तिं꣡ कृ꣢णुध्वम् । वि꣡शः꣢ पू꣣र्वीः꣡ प्र च꣢꣯र चर्षणि꣣प्राः꣢ ॥१७९३॥

प्र꣢ । वः꣣ । महे꣢ । म꣣हेवृ꣡धे꣢ । म꣣हे । वृ꣡धे꣢꣯ । भ꣣रध्वम् । प्र꣡चे꣢꣯तसे । प्र । चे꣣तसे । प्र꣢ । सु꣣मति꣢म् । सु꣣ । मति꣢म् । कृ꣣णुध्वम् । वि꣡शः꣢꣯ । पू꣣र्वीः꣢ । प्र । च꣣र । चर्षणिप्राः꣣ । च꣣र्षणि । प्राः꣢ ॥१७९३॥

Mantra without Swara
प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् । विशः पूर्वीः प्र चर चर्षणिप्राः ॥

प्र । वः । महे । महेवृधे । महे । वृधे । भरध्वम् । प्रचेतसे । प्र । चेतसे । प्र । सुमतिम् । सु । मतिम् । कृणुध्वम् । विशः । पूर्वीः । प्र । चर । चर्षणिप्राः । चर्षणि । प्राः ॥१७९३॥

Samveda - Mantra Number : 1793
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे विद्यार्थिनः प्रजाः वा ! यूयम् (महेवृधे) महत्त्वाय वर्धयति यस्तस्मै, (महे) महते इन्द्राय आचार्याय परमात्मने वा (प्र भरध्वम्) उत्तमम् उपहारम् आनयत। (प्रचेतसे) प्रकृष्टचित्ताय प्रकृष्टज्ञानाय वा तस्मै (सुमतिम्) शोभनां स्तुतिम् (प्र कृणुध्वम्) प्रकुरुत। हे इन्द्र आचार्य परमात्मन् वा ! (चर्षणिप्राः) चर्षणयो मनुष्याः तान् विद्यया धनधान्यादिभिः सद्गुणैर्वा प्राति पूरयतीति तादृशः त्वम् (विशः) विद्यार्थिनः प्रजाः वा (पूर्वीः) श्रेष्ठाः (प्रचर) प्रकुरु ॥१॥२
Essence
यथा जगदीश्वरो जनान् सुखयति तथाचार्यस्यापीदं कर्तव्यं यत् स छात्रजनान् विद्यादिभिः प्रपूर्य सुखयेत्, तेषु योगाभ्यासाद्यभिरुचिं च जनयित्वा तानध्यात्मपथिकानपि विदध्यात् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३२८ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्र युगपदाचार्यपरमात्मनोर्विषय उच्यते।