Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1792

1875 Mantra
Devata- इन्द्रः Rishi- सुकक्ष आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त्व꣡ꣳ हि वृ꣢꣯त्रहन्नेषां पा꣣ता꣡ सोमा꣢꣯ना꣣म꣡सि꣢ । उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣त꣢म् ॥१७९२॥

त्वम् । हि । वृ꣣त्रहन् । वृत्र । हन् । एषाम् । पाता꣢ । सो꣡मा꣢꣯नाम् । अ꣡सि꣢꣯ । उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् ॥१७९२॥

Mantra without Swara
त्वꣳ हि वृत्रहन्नेषां पाता सोमानामसि । उप नो हरिभिः सुतम् ॥

त्वम् । हि । वृत्रहन् । वृत्र । हन् । एषाम् । पाता । सोमानाम् । असि । उप । नः । हरिभिः । सुतम् ॥१७९२॥

Samveda - Mantra Number : 1792
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वृत्रहन्) कामक्रोधादिषड्रिपूणां योगमार्गे समागतानां विघ्नानां वा हन्तः जीवात्मन् ! (त्वं हि) त्वं खलु (एषाम्) एतेषाम् (सोमानाम्) ज्ञानरसानां कर्मरसानां च (पाता) आस्वादयिता (असि) विद्यसे। (नः) अस्माकम् (हरिभिः) मनःसहितैर्ज्ञानेन्द्रियैः कर्मेन्द्रियैश्च (सुतम्) उत्पादितं ज्ञानं कर्म च (उप) उपप्राप्नुहि ॥३॥
Essence
जीवात्मा खलु शुभं ज्ञानं कर्म च सम्पाद्य योगविधिना परमात्मसाक्षात्कारेण निःश्रेयसं प्राप्तुमर्हति ॥३॥
Subject
अथ पुनर्जीवात्मानमाह।