Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1790

1875 Mantra
Devata- इन्द्रः Rishi- सुकक्ष आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣तं꣢ या꣣हि꣡ म꣢दानां पते । उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣त꣢म् ॥१७९०॥

उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् । या꣣हि꣢ । म꣣दानाम् । पते । उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् ॥१७९०॥

Mantra without Swara
उप नो हरिभिः सुतं याहि मदानां पते । उप नो हरिभिः सुतम् ॥

उप । नः । हरिभिः । सुतम् । याहि । मदानाम् । पते । उप । नः । हरिभिः । सुतम् ॥१७९०॥

Samveda - Mantra Number : 1790
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मदानां पते) आनन्ददायिनां ज्ञानानां कर्मणां च स्वामिन् जीवात्मन् ! त्वम् (नः) अस्माकम् (हरिभिः) ज्ञानेन्द्रियैः (सुतम्) उत्पादितं ज्ञानम् (उप याहि) उप प्राप्नुहि, (नः) अस्माकम् (हरिभिः) कर्मेन्द्रियैः (सुतम्) निष्पादितं कर्म (उप याहि) उपप्राप्नुहि ॥१॥
Essence
मनःसहितैर्ज्ञानेन्द्रियकर्मेन्द्रियरूपैः साधनैर्निष्पादिते ज्ञानकर्मणी संगृह्य मनुष्यस्य जीवात्माऽध्यात्ममार्गे पदं निधायोत्कर्षं प्राप्नुयात् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १५० क्रमाङ्के परमात्मविषयमाचार्यविषयं चोपजीव्य व्याख्याता। अत्र जीवात्मा प्रोद्बोध्यते।