Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1788

1875 Mantra
Devata- सूर्यः Rishi- जमदग्निर्भार्गवः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
ब꣢ण्म꣣हा꣡ꣳ अ꣢सि सूर्य꣣ ब꣡डा꣢दित्य म꣣हा꣡ꣳ अ꣢सि । म꣣ह꣡स्ते꣢ स꣣तो꣡ म꣢हि꣣मा꣡ प꣢निष्टम म꣣ह्ना꣡ दे꣢व म꣣हा꣡ꣳ अ꣢सि ॥१७८८॥

ब꣢ट् । म꣣हा꣢न् । अ꣣सि । सूर्य । ब꣢ट् । आ꣣दित्य । आ । दित्य । म꣢हान् । अ꣣सि । महः꣢ । ते꣣ । सतः꣢ । म꣣हिमा꣢ । प꣣निष्टम । मह्ना꣢ । दे꣣व । महा꣢न् । अ꣣सि ॥१७८८॥

Mantra without Swara
बण्महाꣳ असि सूर्य बडादित्य महाꣳ असि । महस्ते सतो महिमा पनिष्टम मह्ना देव महाꣳ असि ॥

बट् । महान् । असि । सूर्य । बट् । आदित्य । आ । दित्य । महान् । असि । महः । ते । सतः । महिमा । पनिष्टम । मह्ना । देव । महान् । असि ॥१७८८॥

Samveda - Mantra Number : 1788
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(बट्) सत्यम्, हे (सूर्य) भास्कर ! त्वम् (महान् असि) विशालोऽसि, (बट्) सत्यम्, हे (आदित्य) दिवाकर ! त्वम् (महान् असि) महत्त्वोपेतोऽसि। हे (पनिष्टम) सौरमण्डले स्तुत्यतम ! [पण व्यवहारे स्तुतौ च। पन्यते स्तूयते यः स पनिः, अतिशयेन पनिः पनिष्टमः, मध्ये सुडागमश्छान्दसः, तस्य षत्वं च।] (महः सतः ते) तेजस्विनः सतः तव (महिमा) गरिमा, अद्भुतोऽस्ति। हे (देव) प्रकाशक ! त्वम् (मह्ना) महिम्ना (महान् असि) गौरवपूर्णोऽसि—इति सूर्यस्य अन्योक्त्या जीवात्मानमाह ॥१॥२ अत्रान्योक्तिरलङ्कारः ॥१॥
Essence
सूर्यः परिमाणेन महान् तत्परिधेरष्टलक्षक्रोशद्राघिम्नोऽप्यधिकत्वात्, कर्मभिर्महान् समस्तग्रहोपग्रहाणां प्रकाशकत्वाज्जीवनाधारत्वाच्च, गुरुत्वाकर्षणेन महान् सर्वेषां खगोलपिण्डानामाकर्षणेन धारकत्वात्, ज्योतिषा च महान् ज्योतिष्पुञ्जत्वात्। तथैव मनुष्यस्यात्मन्यपि महती शक्तिर्निहितास्ति, तां परिचित्य स महान्ति कर्माणि कुर्यादित्युद्बोधनम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २७६ क्रमाङ्के परमात्मनृपत्याचार्यविषये व्याख्याता। अत्रादित्यदृष्टान्तेन जीवात्मा प्रोद्बोध्यते।