Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1787

1875 Mantra
Devata- सोमः Rishi- बिन्दुः पूतदक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣तो꣡ न्व꣢स्य꣣ जो꣢ष꣣मा꣡ इन्द्रः꣢꣯ सु꣣त꣢स्य꣣ गो꣡म꣢तः । प्रा꣣त꣡र्होते꣢꣯व मत्सति ॥१७८७॥

उ꣣त꣢ । उ꣣ । नु꣢ । अ꣣स्य । जो꣡ष꣢꣯म् । आ । इ꣡न्द्रः꣢꣯ । सु꣣त꣡स्य꣢ । गो꣡म꣢꣯तः । प्रा꣣तः꣢ । हो꣡ता꣢꣯ । इ꣡व । मत्सति ॥१७८७॥

Mantra without Swara
उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः । प्रातर्होतेव मत्सति ॥

उत । उ । नु । अस्य । जोषम् । आ । इन्द्रः । सुतस्य । गोमतः । प्रातः । होता । इव । मत्सति ॥१७८७॥

Samveda - Mantra Number : 1787
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उत उ नु) अपि च (प्रातः) प्रभातवेलायाम् (सुतस्य) ब्रह्मयज्ञेन अभिषुतस्य (गोमतः) प्रकाशयुक्तस्य (अस्य) ब्रह्मानन्दरूपस्य सोमरसस्य (जोषम्) सेवनम्। [जुषी प्रीतिसेवनयोः, तुदादिः, घञ् प्रत्ययः।] (इन्द्रः) योगी जनः (मत्सति) स्तौति। [मदि स्तुत्यादौ, लेटि सिब्विकरणे रूपम्।] (होता इव) होमकर्ता यथा यज्ञाग्निं स्तौति तथा ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
यथा प्रातर्देवयज्ञेऽग्नौ होमकर्ता पुरुषोऽग्निं स्तौति तथा योगी ब्रह्मयज्ञे परमात्मसङ्गेन प्राप्तमानन्दं स्तौति ॥३॥
Subject
अथ पुनर्ब्रह्मानन्दविषयमाह।