Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1786

1875 Mantra
Devata- सोमः Rishi- बिन्दुः पूतदक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
पि꣡ब꣢न्ति मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ तना꣢꣯ पू꣣त꣢स्य꣣ व꣡रु꣢णः । त्रि꣣षधस्थ꣢स्य꣣ जा꣡व꣢तः ॥१७८६॥

पि꣡ब꣢꣯न्ति । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । त꣡ना꣢꣯ । पू꣣त꣡स्य꣢ । व꣡रु꣢꣯णः । त्रि꣣षधस्थ꣡स्य꣢ । त्रि꣣ । सधस्थ꣡स्य꣢ । जा꣡व꣢꣯तः ॥१७८६॥

Mantra without Swara
पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः । त्रिषधस्थस्य जावतः ॥

पिबन्ति । मित्रः । मि । त्रः । अर्यमा । तना । पूतस्य । वरुणः । त्रिषधस्थस्य । त्रि । सधस्थस्य । जावतः ॥१७८६॥

Samveda - Mantra Number : 1786
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तना) तनेन विस्तरेण (पूतस्य) पवित्रस्य, (त्रिषधस्थस्य) त्रयः आत्ममनःप्राणरूपाः सधस्थाः स्थितिस्थानानि यस्य तस्य, (जावतः) जवतः वेगयुक्तस्य रसस्य (मित्रः) मैत्रीकरुणामुदितोपेक्षावृत्तियुक्तो योगी, (अर्यमा) सूर्यवत् तेजोमयो ज्योतिष्मतीप्रज्ञायुक्तो योगी, (वरुणः) वारितव्याधिस्त्यानसंशयाद्यन्तरायसमूहो योगी च (पिबन्ति) आस्वादनं कुर्वन्ति। [तनु विस्तारे इत्यतो निष्पन्नात् तनशब्दात् तृतीयैकवचनस्य ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन आलादेशः। जवतेर्गत्यर्थाच्छतरि ‘जवतः’ इति प्राप्ते ‘जावतः’ इत्यत्र ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इत्यनेन दीर्घः।] ॥२॥
Essence
परिपक्वा योगिन एव समाधौ स्थिताः पवित्रं ब्रह्मानन्दरसमास्वादयन्ति ॥२॥
Subject
अथ कीदृशं ब्रह्मानन्दरसं के पिबन्तीत्याह।