Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1785

1875 Mantra
Devata- सोमः Rishi- बिन्दुः पूतदक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢स्ति꣣ सो꣡मो꣢ अ꣣य꣢ꣳ सु꣣तः꣡ पिब꣢꣯न्त्यस्य म꣣रु꣡तः꣢ । उ꣣त꣢ स्व꣣रा꣡जो꣢ अ꣣श्वि꣡ना꣢ ॥१७८५॥

अ꣡स्ति꣢꣯ । सो꣡मः꣢꣯ । अ꣣य꣢म् । सु꣣तः꣢ । पि꣡ब꣢꣯न्ति । अ꣣स्य । मरु꣡तः꣢꣯ । उ꣣त꣢ । स्व꣣रा꣡जः꣢ । स्व꣣ । रा꣡जः꣢꣯ । अ꣣श्वि꣡ना꣢ ॥१७८५॥

Mantra without Swara
अस्ति सोमो अयꣳ सुतः पिबन्त्यस्य मरुतः । उत स्वराजो अश्विना ॥

अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः । उत । स्वराजः । स्व । राजः । अश्विना ॥१७८५॥

Samveda - Mantra Number : 1785
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अयम्) एषः (सोमः) आनन्दरसः (सुतः अस्ति) अभिषुतो वर्तते। (स्वराजः अस्य) स्वकीयदीप्तिमतः अस्य (मरुतः) प्राणाः (उत) अपि च (अश्विनौ) आत्मा मनश्च (पिबन्ति) आस्वादनं कुर्वन्ति। [स्वराजः अस्य स्वराजम् इमम्। द्वितीयार्थे षष्ठी] ॥१॥
Essence
उपासकैः परमात्मध्यानेन यो ब्रह्मानन्दरसः प्राप्यते तेनात्ममनःप्राणादीनि सर्वाण्यपि तरङ्गितानि जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १७४ क्रमाङ्के भक्तिज्ञानकर्मवीरतासेवारसविषये व्याख्याता। अत्र ब्रह्मानन्दरसविषय उच्यते।