Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1784

1875 Mantra
Devata- इन्द्रः Rishi- बृहदुक्थो वामदेव्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ऐ꣡भि꣢र्ददे꣣ वृ꣢ष्ण्या꣣ पौ꣡ꣳस्या꣢नि꣣ ये꣢भि꣣रौ꣡क्ष꣢द्वृत्र꣣ह꣡त्या꣢य व꣣ज्री꣢ । ये꣡ कर्म꣢꣯णः क्रि꣣य꣡मा꣢णस्य म꣣ह्न꣡ ऋ꣢ते क꣣र्म꣢मु꣣द꣡जा꣢यन्त दे꣣वाः꣢ ॥१७८४॥

आ । ए꣣भिः । ददे । वृ꣡ष्ण्या꣢꣯ । पौ꣡ꣳस्या꣢꣯नि । ये꣡भिः꣢꣯ । औ꣡क्ष꣢꣯त् । वृ꣣त्रह꣡त्या꣢य । वृ꣣त्र । ह꣡त्या꣢꣯य । व꣣ज्री꣢ । ये । क꣡र्म꣢꣯णः । क्रि꣣य꣡मा꣢णस्य । म꣣ह्ना꣢ । ऋ꣣तेकर्म꣢म् । ऋ꣣ते । कर्म꣢म् । उ꣣द꣡जा꣢यन्त । उ꣣त् । अ꣡जा꣢꣯यन्त । दे꣣वाः꣢ ॥१७८४॥

Mantra without Swara
ऐभिर्ददे वृष्ण्या पौꣳस्यानि येभिरौक्षद्वृत्रहत्याय वज्री । ये कर्मणः क्रियमाणस्य मह्न ऋते कर्ममुदजायन्त देवाः ॥

आ । एभिः । ददे । वृष्ण्या । पौꣳस्यानि । येभिः । औक्षत् । वृत्रहत्याय । वृत्र । हत्याय । वज्री । ये । कर्मणः । क्रियमाणस्य । मह्ना । ऋतेकर्मम् । ऋते । कर्मम् । उदजायन्त । उत् । अजायन्त । देवाः ॥१७८४॥

Samveda - Mantra Number : 1784
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(मह्नः कर्मणः) महतः सृष्ट्युत्पत्त्यादिकर्मणः (क्रियमाणस्य) विधीयमानस्य सतः (ये देवाः) ये दिव्यगुणाः इन्द्रे परमेश्वरे (ऋते कर्मम्) प्रयत्नं विनैव, स्वभावतः इत्यर्थः (उदजायन्त) उद्भूताः, (येभिः) यैः देवैः दिव्यगुणैः, (वज्री) वज्रधरः इव स इन्द्रो जगदीश्वरः, (वृत्रहत्याय) विघ्नानां हननाय (औक्षत्) जीवात्मानम् असिञ्चत्, (एभिः) एतैस्तैर्दिव्यगुणैः अद्यापि सः (वृष्ण्या) वृष्ण्यानि सुखवर्षकाणि (पौंस्यानि) बलकर्माणि (आददे) गृह्णाति, करोतीत्यर्थः ॥३॥
Essence
परमेश्वरे स्वभावतः सदातना ये गुणाः सन्ति तैरेव स समग्रं सृष्टिव्यापारं करोति, तेषां गुणानां कञ्चिदंशं स मनुष्येष्वपि निदधाति येन ते विघ्नपापदोषादीनां विनाशाय प्रभवन्ति ॥३॥
Subject
अथ पुनरपि स एव विषय उच्यते।