Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1783

1875 Mantra
Devata- इन्द्रः Rishi- बृहदुक्थो वामदेव्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
शा꣡क्म꣢ना शा꣣को꣡ अ꣢रु꣣णः꣡ सु꣢प꣣र्ण꣢꣫ आ यो म꣣हः꣡ शूरः꣢꣯ स꣣ना꣡दनी꣢꣯डः । य꣢च्चि꣣के꣡त꣢ स꣣त्य꣢꣫मित्तन्न मोघं꣣ व꣡सु꣢ स्पा꣣र्ह꣢मु꣣त꣢꣫ जेतो꣣त꣡ दाता꣢꣯ ॥१७८३॥

शा꣡क्म꣢꣯ना । शा꣣कः꣢ । अ꣣रुणः꣢ । सु꣣पर्णः꣢ । सु꣣ । पर्णः꣢ । आ । यः । म꣣हः꣢ । शू꣡रः꣢꣯ । स꣣ना꣢त् । अ꣡नी꣢꣯डः । अ । नी꣣डः । य꣢त् । चि꣣के꣡त꣢ । स꣣त्य꣢म् । इत् । तत् । न । मो꣡घ꣢꣯म् । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । उ꣣त꣢ । जे꣡ता꣢꣯ । उ꣣त꣢ । दा꣡ता꣢꣯ ॥१७८३॥

Mantra without Swara
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः । यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥

शाक्मना । शाकः । अरुणः । सुपर्णः । सु । पर्णः । आ । यः । महः । शूरः । सनात् । अनीडः । अ । नीडः । यत् । चिकेत । सत्यम् । इत् । तत् । न । मोघम् । वसु । स्पार्हम् । उत । जेता । उत । दाता ॥१७८३॥

Samveda - Mantra Number : 1783
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(शाक्मना) शक्मना बलेन (शाकः) शक्तः, (अरुणः) आरोचमानः, (सुपर्णः) सुपालकः इन्द्रो जगदीश्वरः। [यः पिपर्ति पालयति पूरयति वा स पर्णः। ‘धापॄवस्यज्यतिभ्यो नः’ उ० ३।६ इति पिपर्तेर्नः प्रत्ययः।] (आ) अस्मान् आगच्छतु। [उपसर्गश्रुतेर्योग्यक्रियाध्याहारः।] कीदृशः इन्द्रः ? (यः महः) महान्, (शूरः) वीरः, (सनात्) सदैव (अनीडः) अनिकेतश्च वर्तते। सः (यत् चिकेत) यत् जानाति (तत् सत्यम् इत्) तत् सत्यमेव भवति, (न मोघम्) असत्यं न। सः (स्पार्हम्) स्पृहणीयम् (वसु) आध्यात्मिकं भौतिकं चैश्वर्यम् (उत जेता) अधिगन्तापि भवति (उत दाता) दातापि च भवति ॥२॥
Essence
य इन्द्रः परमेश्वरः सर्वशक्तिमांस्तेजस्वी मनस्वी पालयिता पूरयिता महान् शूरः सत्यज्ञानो वसुमान् वसुप्रदाता चास्ति स सर्वैरुपासनीयोऽभिनन्दनीयश्च ॥२॥
Subject
अथेन्द्रस्य परमात्मनो गुणा वर्ण्यन्ते।