Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1782

1875 Mantra
Devata- इन्द्रः Rishi- बृहदुक्थो वामदेव्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वि꣣धुं꣡ द꣢द्रा꣣ण꣡ꣳ सम꣢꣯ने बहू꣣नां꣢ युवा꣢꣯न꣣ꣳ स꣡न्तं꣢ पलि꣣तो꣡ ज꣢गार । दे꣣व꣡स्य꣢ पश्य꣣ का꣡व्यं꣢ महि꣣त्वा꣢꣫द्या म꣣मा꣢र꣣ स꣡ ह्यः समा꣢꣯न ॥१७८२॥

वि꣣धु꣢म् । वि꣢ । धु꣢म् । द꣣द्राण꣢म् । स꣡म꣢꣯ने । सम् । अ꣣ने । बहूना꣢म् । यु꣡वा꣢꣯नम् । स꣡न्त꣢꣯म् । प꣣लितः꣢ । ज꣣गार । देव꣡स्य꣢ । प꣣श्य । का꣡व्य꣢꣯म् । म꣣हित्वा꣢ । अ꣣द्य꣢ । अ꣣ । द्य꣢ । म꣣मा꣡र꣢ । सः । ह्यः । सम् । आ꣣न ॥१७८२॥

Mantra without Swara
विधुं दद्राणꣳ समने बहूनां युवानꣳ सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥

विधुम् । वि । धुम् । दद्राणम् । समने । सम् । अने । बहूनाम् । युवानम् । सन्तम् । पलितः । जगार । देवस्य । पश्य । काव्यम् । महित्वा । अद्य । अ । द्य । ममार । सः । ह्यः । सम् । आन ॥१७८२॥

Samveda - Mantra Number : 1782
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(समने) संग्रामे (बहूनाम्) अनेकेषां रिपूणाम् (विधुम्) वेद्धारम्। [व्यध ताडने दिवादिः, ‘पॄभिदिव्यधिगृधिधृषिहृषिभ्यः’ उ० १।२३ इत्यनेन उः प्रत्ययः, ‘ग्रहिज्या०’ अ० ६।१।१६ इति सम्प्रसारणम्।] (दद्राणम्) तेषां दुर्गतिं कुर्वाणम्। [द्रा कुत्सायां गतौ, ण्यन्तः, लिटः कानच्।] (युवानं सन्तम्) तरुणमपि सन्तं कञ्चिद् वीरम् (पलितः) वृद्धः कालः (जगार) निगिरति। (देवस्य) क्रीडाकर्तुः जगत्पतेरिन्द्रस्य (महित्वा) महत् (काव्यम्) जगद्रूपं दृश्यकाव्यम् (पश्य) निभालय, यत् (सः) असौ (अद्य) अस्मिन् दिने (ममार) मृतः शेते, यः (ह्यः) गते दिवसे (समान) सम्यक् प्राणान् धारयति स्म ॥१॥
Essence
विपुलशक्तिमतामपि मृत्युमुखान्नोद्धार इत्यवलोक्य धर्मकर्मसु परमात्मचिन्तने च मनो निवेशनीयम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३२५ क्रमाङ्के चन्द्रसूर्यविषये मनआत्मविषये च व्याख्याता। अत्र प्रकारान्तरेण व्याख्यायते।