Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1780

1875 Mantra
Devata- अग्निः Rishi- प्रस्कण्वः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
अ꣢ग्ने꣣ वि꣡व꣢स्वदु꣣ष꣡स꣢श्चि꣣त्र꣡ꣳ राधो꣢꣯ अमर्त्य । आ꣢ दा꣣शु꣡षे꣢ जातवेदो वहा꣣ त्व꣢म꣣द्या꣢ दे꣣वा꣡ꣳ उ꣢ष꣣र्बु꣡धः꣢ ॥१७८०॥

अ꣡ग्ने꣢꣯ । वि꣡व꣢꣯स्वत् । वि । व꣣स्वत् । उष꣡सः꣢ । चि꣣त्र꣢म् । रा꣡धः꣢꣯ । अ꣣मर्त्य । अ । मर्त्य । आ꣢ । दा꣣शु꣡षे । जा꣣तवेदः । जात । वेदः । वह । त्व꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दे꣣वा꣢न् । उ꣣ष꣡र्बु꣢धः । उ꣣षः । बु꣡धः꣢꣯ ॥१७८०॥

Mantra without Swara
अग्ने विवस्वदुषसश्चित्रꣳ राधो अमर्त्य । आ दाशुषे जातवेदो वहा त्वमद्या देवाꣳ उषर्बुधः ॥

अग्ने । विवस्वत् । वि । वस्वत् । उषसः । चित्रम् । राधः । अमर्त्य । अ । मर्त्य । आ । दाशुषे । जातवेदः । जात । वेदः । वह । त्वम् । अद्य । अ । द्य । देवान् । उषर्बुधः । उषः । बुधः ॥१७८०॥

Samveda - Mantra Number : 1780
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अमर्त्य) अमरकीर्ते (जातवेदः) योगज्ञानप्रद (अग्ने) योगिराज ! (त्वम् अद्य) अस्मिन् दिने (दाशुषे) आत्मसमर्पणकारिणे मह्यम् (विवस्वत्) तामसवृत्तीनां विवासयितृ, (उषसः) योगमार्गे उदिताया ज्योतिष्मत्याः प्रज्ञायाः (चित्रम्) अद्भुतम् (राधः) ऐश्वर्यम्, (उषर्बुधः देवान्) उषसि ज्योतिष्मत्यां प्रज्ञायां ये बुध्यन्ते जाग्रति तान् दिव्यगुणांश्च (आवह) प्रापय ॥१॥२
Essence
परमात्मकृपया जीवात्मनः सततप्रयासेन योगगुरोः शिक्षया चोत्तरोत्तरं नवा नवा उपलब्धयो योगाभ्यासिनो जायन्ते विवेकख्यात्या कैवल्यं चाप्यधिगम्यते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४० क्रमाङ्के व्याख्यातपूर्वा। अत्र योगविषयो निरूप्यते।