Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 178

1875 Mantra
Devata- इन्द्रः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ए꣣षो꣢ उ꣣षा꣡ अपू꣢꣯र्व्या꣣꣬ व्यु꣢꣯च्छति प्रि꣣या꣢ दि꣣वः꣢ । स्तु꣣षे꣡ वा꣢मश्विना बृ꣣ह꣢त् ॥१७८॥

ए꣣षा꣢ । उ꣣ । उषाः꣢ । अ꣡पू꣢꣯र्व्या । अ । पू꣣र्व्या । वि꣢ । उ꣣च्छति । प्रिया꣢ । दि꣣वः꣢ । स्तु꣣षे꣢ । वा꣣म् । अश्विना । बृह꣢त् ॥१७८॥

Mantra without Swara
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः । स्तुषे वामश्विना बृहत् ॥

एषा । उ । उषाः । अपूर्व्या । अ । पूर्व्या । वि । उच्छति । प्रिया । दिवः । स्तुषे । वाम् । अश्विना । बृहत् ॥१७८॥

Samveda - Mantra Number : 178
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषा उ) इयं किल (अपूर्व्या२) न पूर्वं कदाचिदनुभूता, अनुपमा। पूर्वस्मिन् काले भवा पूर्व्या, न पूर्व्या अपूर्व्या, भवार्थे यत्। (प्रिया) प्रीतिकरी (उषाः) उषर्वत् प्रकाशमयी धर्मविद्यादिद्युतिः (दिवः) द्योतनात्मकात् इन्द्रात् परमेश्वराद् आचार्याद् नृपतेर्वा, तेषां सकाशादित्यर्थः (वि उच्छति) अधर्माज्ञानादिरूपं तमो विदार्य प्रस्फुरति। (अश्विना) हे अश्विनौ, द्यावापृथिवीवद् उषसः प्रकाशेन व्याप्तौ स्त्रीपुरुषौ ! अहम् (वाम्) युवाम् (बृहत्) प्रभूतम् (स्तुषे) स्तौमि, अभिनन्दामि। ष्टुञ् स्तुतौ धातोर्लेटि उत्तमैकवचने रूपम्। सिब्बहुलं लेटि। अ० ३।१।३४ इति सिबागमः ॥४॥३
Essence
पूर्वस्मिन् मन्त्रे निशाया अपसारणं प्रार्थितम्। सौभाग्येन तां हृदयव्यापिनीं राष्ट्रव्यापिनीं विश्वव्यापिनीम् अधर्मरूपामविद्यारूपां वा निशां निरस्य दिव्यप्रकाशमयी धर्मरूपा विद्यारूपा वा उषाः प्रादुर्भूतास्ति। यथा प्राकृतिक्या उषसः प्रादुर्भावेन द्यावापृथिव्यौ प्रकाशपरिपूर्णे भवतस्तथैवास्या धर्मविद्यासच्चारित्र्याध्यात्मिकत्वादिज्योतिर्भरिताया दिव्याया उषसः प्रकाशेन स्त्रीपुरुषरूपे द्यावापृथिव्यौ दिव्यदीप्त्या देदीप्यमाने संजाते स्तः ॥४॥
Subject
अथ निशाया अपगमे उद्भासिताम् उषसं वर्णयति।
Footnote
१. ऋ० १।४६।१, देवते अश्विनौ। साम० १७२८। २. अपूर्वा एव अपूर्व्या, स्वार्थिकस्तद्धितः। प्रथमेत्यर्थः—इति वि०। पूर्वकालभवाः यस्मान्न सन्तीति—सर्वासां हि देवतानां प्रथमा उषाः। एते वा देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ (ऐ० ब्रा० २।१५) इति ऐतरेयकम्—इति भ०। अपूर्व्या पूर्वेषु मध्यरात्रादिकालेषु विद्यमाना न भवति, किन्त्विदानीन्तना—इति सा०। ३. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विदुषीणां पक्षे व्याख्यातः।