Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1779

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- पदपङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ए꣣भि꣡र्नो꣢ अ꣣र्कै꣡र्भवा꣢꣯ नो अ꣣र्वा꣢ङ् स्वा३꣱र्ण꣡ ज्योतिः꣢꣯ । अ꣢ग्ने꣣ वि꣡श्वे꣢भिः सु꣣म꣢ना꣣ अ꣡नी꣢कैः ॥१७७९॥

ए꣣भिः꣢ । नः꣣ । अर्कैः꣢ । भ꣡व꣢꣯ । नः꣣ । अर्वा꣢ङ् । स्वः꣡ । न । ज्यो꣡तिः꣢꣯ । अ꣡ग्ने꣢꣯ । वि꣡श्वे꣢꣯भिः । सु꣣म꣡नाः꣢ । सु꣣ । म꣡नाः꣢꣯ । अ꣡नी꣢꣯कैः ॥१७७९॥

Mantra without Swara
एभिर्नो अर्कैर्भवा नो अर्वाङ् स्वा३र्ण ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥

एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वः । न । ज्योतिः । अग्ने । विश्वेभिः । सुमनाः । सु । मनाः । अनीकैः ॥१७७९॥

Samveda - Mantra Number : 1779
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) जीवनाधार सर्वान्तर्यामिन् जगदीश ! त्वम् (एभिः) एतैः (अर्कैः) अर्चनसाधनैः वेदमन्त्रैः। [अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।५] (नः अर्वाङ्) अस्मदभिमुखः (भव) जायस्व। त्वम् (स्वः न) सूर्य इव (ज्योतिः) ज्योतिःस्वरूपोऽसि। (सुमनाः) प्रसन्नमनाः त्वम् (विश्वेभिः) सर्वैः (अनीकैः२) सद्गुणसैन्यैः तेजोभिर्वा सह (नः अर्वाङ् भव) अस्मदभिमुखो भव ॥३॥३ अत्रोपमालङ्कारः ॥३॥
Essence
यथा सूर्यः स्वरश्मिभिरस्मदभिमुखो जायते तथैव जगदीश्वरोऽखिलैः सद्गुणैस्तेजोभिश्चास्मान् प्राप्नुयात् ॥३॥ अस्मिन् खण्डे आनन्दधाराणां परमेश्वरस्य जीवात्मनो द्विजन्मनश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथ परमात्मा प्रार्थ्यते।