Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1778

1875 Mantra
Devata- अग्निः Rishi- वामदेवो गौतमः Chhand- पदपङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ꣢धा꣣꣬ ह्य꣢꣯ग्ने꣣ क्र꣡तो꣢र्भ꣣द्र꣢स्य꣣ द꣡क्ष꣢स्य सा꣣धोः꣢ । र꣣थी꣢रृ꣣त꣡स्य꣢ बृह꣣तो꣢ ब꣣भू꣡थ꣢ ॥१७७८॥

अ꣡ध꣢꣯ । हि । अग्ने । क्र꣡तोः꣢꣯ । भ꣣द्र꣡स्य꣢ । द꣡क्ष꣢꣯स्य । सा꣣धोः꣢ । र꣣थीः꣢ । ऋ꣣त꣡स्य꣢ । बृ꣣हतः꣢ । ब꣣भू꣡थ꣢ ॥१७७८॥

Mantra without Swara
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीरृतस्य बृहतो बभूथ ॥

अध । हि । अग्ने । क्रतोः । भद्रस्य । दक्षस्य । साधोः । रथीः । ऋतस्य । बृहतः । बभूथ ॥१७७८॥

Samveda - Mantra Number : 1778
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अध) अथ, हे (अग्ने) जीवनोन्नायक परमात्मदेव ! त्वम् (भद्रस्य क्रतोः) शुभस्य कर्मणः (साधोः दक्षस्य) शोभनस्य बलस्य, (बृहतः ऋतस्य) महतः सत्यस्य च (रथीः) स्वामी (हि) निश्चयेन (बभूथ) बभूविथ। [अत्र ‘बभूथाततन्थजगृभ्मववर्थेति निगमे’। अ० ७।२।६४ इति निपातनादिडभावः। ‘रथीः’ इत्यत्र ‘छन्दसीवनिपौ च वक्तव्यौ’ वा० ५।२।१२२ इति वार्तिकेन मत्वर्थे ई प्रत्ययः। ‘अधा’ इत्यत्र ‘निपातस्य च’। अ० ६।३।१३६ इत्यनेन दीर्घः] ॥२॥२
Essence
यथा जगदीश्वरः श्रेष्ठस्य कर्मणो बलस्य सत्यस्य चाधिपतिर्वर्तते तथैव मनुष्यैरपि भाव्यम् ॥२॥
Subject
अथ परमात्मानं वर्णयति।