Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1776

1875 Mantra
Devata- अग्निः Rishi- दीर्घतमा औचथ्यः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣣य꣢꣫ꣳ स होता꣣ यो꣢ द्वि꣣ज꣢न्मा꣣ वि꣡श्वा꣢ द꣣धे꣡ वार्या꣢꣯णि श्रव꣣स्या꣢ । म꣢र्तो꣣ यो꣡ अ꣢स्मै सु꣣तु꣡को꣢ द꣣दा꣡श꣢ ॥१७७६॥

अय꣢म् । सः । हो꣡ता꣢ । यः । द्वि꣣ज꣡न्मा꣢ । द्वि꣣ । ज꣡न्मा꣢꣯ । वि꣡श्वा꣢꣯ । द꣣धे꣢ । वा꣡र्या꣢꣯णि । श्र꣣वस्या꣢ । म꣡र्तः꣢꣯ । यः । अ꣣स्मै । सुतु꣡कः꣢ । सु꣣ । तु꣡कः꣢꣯ । द꣣दा꣡श꣢ ॥१७७६॥

Mantra without Swara
अयꣳ स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या । मर्तो यो अस्मै सुतुको ददाश ॥

अयम् । सः । होता । यः । द्विजन्मा । द्वि । जन्मा । विश्वा । दधे । वार्याणि । श्रवस्या । मर्तः । यः । अस्मै । सुतुकः । सु । तुकः । ददाश ॥१७७६॥

Samveda - Mantra Number : 1776
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः द्विजन्मा) यो मातापितृभ्यामेकम् आचार्यसकाशाद् द्वितीयमिति द्वे जन्मनी प्राप्य द्विजो जायते (सः अयम्) स एष (होता) सर्वेभ्यो विद्यासुखादीनां दाता, होमकर्ता च जायते। अपि च (विश्वा) विश्वानि (श्रवस्या) श्रवस्यानि यशोयोग्यानि (वार्याणि) वरणीयानि यमनियमादीनि कर्माणि (दधे) स्वजीवने धारयति। (यः) यश्च (मर्तः) मनुष्यः,आचार्य इत्यर्थः (अस्मै) एतस्मै (ददाश) विद्यां प्रयच्छति, स तेन सुशिक्षितेन विदुषा द्विजेन (सुतुकः) सुपुत्रो जायते ॥३॥२
Essence
आचार्याद् विद्यामधीत्य स्नातकः सन् द्विजो भूत्वा तथाऽऽचरेद् येन तस्य यशः सर्वत्र प्रसरेत्। एतादृशेन गुणिना द्विजेन सत्यमाचार्योऽपि स्वात्मानं सुपुत्रं मन्यते ॥३॥
Subject
अथ पुनरपि द्विजन्मनो विषयमाह।