Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1775

1875 Mantra
Devata- अग्निः Rishi- दीर्घतमा औचथ्यः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣣भि꣢ द्वि꣣ज꣢न्मा꣣ त्री꣡ रो꣢च꣣ना꣢नि꣣ वि꣢श्वा꣣ र꣡जा꣢ꣳसि शुशुचा꣣नो꣡ अ꣢स्थात् । हो꣢ता꣣ य꣡जि꣢ष्ठो अ꣣पा꣢ꣳ स꣣ध꣡स्थे꣢ ॥१७७५॥

अभि꣢ । द्वि꣣ज꣡न्मा꣢ । द्वि꣣ । ज꣡न्मा꣢꣯ । त्रि । रो꣣चना꣡नि꣢ । वि꣡श्वा꣢꣯ । र꣡जा꣢꣯ꣳसि । शु꣣शुचानः꣢ । अ꣣स्थात् । हो꣡ता꣢꣯ । य꣡जि꣢꣯ष्ठः । अ꣣पा꣢म् । स꣣ध꣡स्थे꣢ । स꣣ध꣢ । स्थे꣣ ॥१७७५॥

Mantra without Swara
अभि द्विजन्मा त्री रोचनानि विश्वा रजाꣳसि शुशुचानो अस्थात् । होता यजिष्ठो अपाꣳ सधस्थे ॥

अभि । द्विजन्मा । द्वि । जन्मा । त्रि । रोचनानि । विश्वा । रजाꣳसि । शुशुचानः । अस्थात् । होता । यजिष्ठः । अपाम् । सधस्थे । सध । स्थे ॥१७७५॥

Samveda - Mantra Number : 1775
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(द्विजन्मा) एकं जन्म मातापितृभ्यां, द्वितीयं जन्माचार्यस्य विद्यायाश्च सकाशादिति द्वे जन्मनी यस्य सः (त्री रोचनानि) त्रीणि दैहिकात्मिकसामाजिकतेजांसि (अभि) अभिप्राप्य (विश्वा रजांसि) सर्वान् रजोगुणान् (शुशुचानः) सत्त्वगुणेन प्रकाशयन् (होता) होमकर्ता, (अपां सधस्थे) नदीनां सङ्गमे (यजिष्ठः) अतिशयेन यष्टा परमेश्वरपूजकः सन् (अस्थात्) तिष्ठति, निवसति ॥२॥२
Essence
मनुष्यो मातापितृभ्यां जन्म प्राप्य यथासमयं गुरुकुलं प्रविष्टो विद्या अधीत्य तेजांसि प्राप्याचार्यगर्भाद् द्वितीयं जन्माधिगम्य कृतसमावर्तनसंस्कारः स्नातकः सन् गृहं गत्वा ब्रह्मयज्ञदेवयज्ञादीनि शुभकर्माण्याचरन्नितरान् मनुष्यांश्चोपदशेन धार्मिकान् कुर्वन् जीवनं यापयेत् ॥२॥
Subject
अथ द्विजन्मनो विषयमाह।