Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1774

1875 Mantra
Devata- अग्निः Rishi- दीर्घतमा औचथ्यः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ꣢꣯ यः पुरं꣣ ना꣡र्मि꣢णी꣣म꣡दी꣢दे꣣द꣡त्यः꣢ क꣣वि꣡र्न꣢भ꣣न्यो꣢३ ना꣡र्वा꣢ । सू꣢रो꣣ न꣡ रु꣢रु꣣क्वा꣢ञ्छ꣣ता꣡त्मा꣢ ॥१७७४॥

आ꣢ । यः । पु꣡र꣢꣯म् । ना꣡र्मि꣢꣯णीम् । अ꣡दी꣢꣯देत् । अ꣡त्यः꣢꣯ । क꣣विः꣢ । न꣣भन्यः꣢ । न । अ꣡र्वा꣢꣯ । सू꣡रः꣢꣯ । न । रु꣣रुक्वा꣢न् । श꣣ता꣡त्मा꣢ । श꣣त꣢ । आ꣣त्मा ॥१७७४॥

Mantra without Swara
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्वा । सूरो न रुरुक्वाञ्छतात्मा ॥

आ । यः । पुरम् । नार्मिणीम् । अदीदेत् । अत्यः । कविः । नभन्यः । न । अर्वा । सूरः । न । रुरुक्वान् । शतात्मा । शत । आत्मा ॥१७७४॥

Samveda - Mantra Number : 1774
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) यः अग्निः नेता जीवात्मा (नार्मिणीम्२) हासविलासयुक्ताम् (पुरम्) देहनगरीम् (आ अदीदेत्) तेजसा आदीपयति, सः (अत्यः) देहाद् देहान्तरं गन्ता यद्वा मोक्षं गन्ता। [अथ सातत्यगमने। अतति सततं गच्छतीति अत्यः।] (कविः) क्रान्तप्रज्ञः, (नभन्यः न) नभसि भवो वायुरिव (अर्वा) दोषाणां हिंसकः। [ऋणोति हिनस्ति दोषान् यः स अर्वा। ऋ हिंसायाम्, स्वादिः। औणादिको वनिप् प्रत्ययः।] (सूरः न) आदित्यः इव (रुरुक्वान्) दीप्तः। [रोचतेर्दीप्तिकर्मणो लिटः क्वसुः।] (शतात्मा) शरीरेण शतायुश्च भवेदिति शेषः ॥१॥३ अत्रोपमालङ्कारः ॥१॥
Essence
जीवात्मा पूर्वकृतशुभकर्मानुसारेण मानवदेहं प्राप्य बुद्धिविवेकेन कर्तव्यकर्माण्याचरन् वायुरिव सर्वान् दोषान् विनाश्य सूर्य इव रोचिष्णुः सन्नुत्कर्षं प्राप्नुयात् ॥१॥
Subject
अत प्राप्तमनुष्यजन्मा जीवात्मा कीदृशो भवेदित्याह।