Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1771

1875 Mantra
Devata- इन्द्रः Rishi- प्रियमेध आङ्गिरसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ꣢ त्वा꣣ र꣢थं꣣ य꣢थो꣣त꣡ये꣢ सु꣣म्ना꣡य꣢ वर्तयामसि । तु꣣विकूर्मि꣡मृ꣢ती꣣ष꣢हमि꣡न्द्रं꣢ शविष्ठ꣣ स꣡त्प꣢तिम् ॥१७७१॥

आ꣢ । त्वा꣣ । र꣡थ꣢꣯म् । य꣡था꣢꣯ । ऊ꣣त꣡ये꣢ । सु꣣म्ना꣡य꣢ । व꣣र्तयामसि । तुविकूर्मि꣢म् । तु꣣वि । कूर्मि꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋति । स꣣हम् । इ꣡न्द्र꣢꣯म् । श꣣विष्ठ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥१७७१॥

Mantra without Swara
आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् ॥

आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुविकूर्मिम् । तुवि । कूर्मिम् । ऋतीषहम् । ऋति । सहम् । इन्द्रम् । शविष्ठ । सत्पतिम् । सत् । पतिम् ॥१७७१॥

Samveda - Mantra Number : 1771
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शविष्ठ) बलवत्तम परमेश जीवात्मन् वा ! (तुविकूर्मिम्) बहूनां कर्मणां कर्तारम्, (ऋतीषहम्) ऋतीः आक्रान्त्रीः शत्रुसेनाः (सहते) पराभवति यस्तम्, (सत्पतिम्) सतां पालकम् (इन्द्रम् त्वा) सत्याहिंसाद्यैश्वर्यवन्तं विघ्नविदारणसमर्थं परमेशं जीवात्मानं च त्वाम् (ऊतये) रक्षायै (सुम्नाय) सुखाय च, वयम् (आ वर्तयामसि) अस्मदभिमुखं प्रवर्तयामः। कथमिव ? (यथा) येन प्रकारेण (रथम्) शकटं कश्चित् प्रवर्तयति ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
मनुष्यो यदि परमेश्वरमुपासीत तस्यात्मा च यदि जागरूकः सक्रियश्च जायेत तदा स महान्तमुत्कर्षं निःश्रेयसं चापि प्राप्तुं शक्नुयात् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३५४ क्रमाङ्के परमात्मानं राजानं च सम्बोधिता। अत्र परमात्मा जीवात्मा च सम्बोध्यते।