Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1770

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधो वामदेवो वा Chhand- द्विपदा गायत्री Swara- षड्जः
Mantra with Swara
वि꣢ स्रु꣣त꣢यो꣣ य꣡था꣢ प꣣थ꣢꣫ इन्द्र त्वद्यन्तु रातयः ॥१७७०॥

वि । स्रु꣣त꣡यः꣢ । य꣡था꣢꣯ । प꣣थः꣢ । इ꣡न्द्र꣢꣯ । त्वत् । य꣣न्तु । रात꣡यः꣢ ॥१७७०॥

Mantra without Swara
वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः ॥

वि । स्रुतयः । यथा । पथः । इन्द्र । त्वत् । यन्तु । रातयः ॥१७७०॥

Samveda - Mantra Number : 1770
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यथा) येन प्रकारेण (पथः२) राजमार्गात् (स्रुतयः) लघुमार्गाः वियन्ति विभिन्नासु दिक्षु गच्छन्ति तद्वत्, हे (इन्द्र) जगदीश्वर आचार्य वा ! (त्वत्) त्वत्सकाशात्, (रातयः) ऐश्वर्यदानानि विद्यादानानि (च वियन्तु) विविधं गच्छन्तु ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
यथा राजमार्गादन्ये विविधा लघुमार्गा निःसृत्य पथिकानुपकुर्वन्ति तथैव परमेश्वरादाचार्याच्च दिव्यगुणकर्माणि विविधा विद्याश्च निःसृत्योपासकान् शिष्यांश्चोपकुर्वन्तु ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ४५३ क्रमाङ्के परमात्मानं जीवात्मानं राजानं च सम्बोधिता। अत्र परमेश्वर आचार्यश्चोच्यते।