Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1768

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधो वामदेवो वा Chhand- द्विपदा गायत्री Swara- षड्जः
Mantra with Swara
ए꣣ष꣢ ब्र꣣ह्मा꣢꣫ य ऋ꣣त्वि꣢य꣣ इ꣢न्द्रो꣣ ना꣡म꣢ श्रु꣣तो꣢ गृ꣣णे ॥१७६८॥

ए꣣षः꣢ । ब्र꣡ह्मा꣢ । यः । ऋ꣣त्वि꣡यः꣢ । इ꣡न्द्रः꣢꣯ । ना꣡म꣢꣯ । श्रु꣣तः꣢ । गृ꣣णे꣢ ॥१७६८॥१

Mantra without Swara
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥

एषः । ब्रह्मा । यः । ऋत्वियः । इन्द्रः । नाम । श्रुतः । गृणे ॥१७६८॥१

Samveda - Mantra Number : 1768
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषः) अयम् जगदीश्वरः आचार्यश्च (ब्रह्मा) चतुर्वेदवित् वर्तते, (यः ऋत्वियः) ऋतूनां प्रभुः ऋतुमृतुं विद्यावर्षको वा विद्यते। [ऋतुभिः प्रभुः इन्द्रः। तै० सं० ४।४।८।१। ‘ऋतुमृतुं वर्षतु’ काठ० सं० १९।५। यद्यपि ‘छन्दसि घस्’ अ० ५।१।१०६ इत्यनेन तदस्य प्राप्तमित्यर्थे घस् प्रत्ययो विहितस्तथापि बाहुलकादन्यस्मिन्नर्थेऽपि ज्ञेयः।] (तस्य) जगदीश्वरस्य आचार्यस्य च (इन्द्रः नाम) इन्द्र इति संज्ञाऽस्ति। तेन अहम् श्रुतः कार्तिमान् बहुश्रुतो वा कृतः। तमहम् (गृणे) अर्चामि स्तौमि वा ॥१॥
Essence
यथा चतुर्णां वेदानां सृष्ट्यादौ प्रकाशकः सर्वेषामृतूनां स्रष्टा परमेश्वरः सर्वैरर्चनीयस्तथा वेदवेदाङ्गाध्यापयिता प्रत्यृतु विद्यावर्षक आचार्योऽपि सत्करणीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४३८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जगदीश्वर आचार्यश्चोच्येते।