Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1767

1875 Mantra
Devata- पवमानः सोमः Rishi- नृमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सु꣣ष꣡हा꣢ सोम꣣ ता꣡नि꣢ ते पुना꣣ना꣡य꣢ प्रभूवसो । व꣡र्धा꣢ समु꣣द्र꣡मु꣢क्थ्य ॥१७६७॥

सु꣣ष꣡हा꣢ । सु꣣ । स꣡हा꣢꣯ । सो꣣म । ता꣡नि꣢꣯ । ते꣣ । पुनाना꣡य꣢ । प्र꣣भूवसो । प्रभु । वसो । व꣡र्ध꣢꣯ । स꣣मु꣢द्रम् । स꣣म् । उ꣢द्रम् । उ꣣क्थ्य ॥१७६७॥

Mantra without Swara
सुषहा सोम तानि ते पुनानाय प्रभूवसो । वर्धा समुद्रमुक्थ्य ॥

सुषहा । सु । सहा । सोम । तानि । ते । पुनानाय । प्रभूवसो । प्रभु । वसो । वर्ध । समुद्रम् । सम् । उद्रम् । उक्थ्य ॥१७६७॥

Samveda - Mantra Number : 1767
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (प्रभूवसो) प्रभूतैश्वर्य (सोम) जगत्पते सर्वान्तर्यामिन् परमेश ! (पुनानाय) स्वात्मानं पवित्रीकुर्वाणाय उपासकाय (ते) तव (तानि) प्रसिद्धानि तेजांसि (सुषहा) सुषहाणि सम्यक् कामक्रोधादिरिपूणामभिभवकराणि, सन्तु इति शेषः। हे (उक्थ्य) प्रशंसनीय सोम चन्द्रवदाह्लादक देव ! त्वम् (समुद्रम्) ऐश्वर्यसमुद्रम् (वर्ध) वर्धय। [रायः समुद्रांश्चतुरः। साम० ७० इति वचनात् समुद्रेणात्र ऐश्वर्यसमुद्रो गृह्यते] ॥३॥
Essence
पूर्णः सोमश्चन्द्रो यथा जलस्य समुद्रं वर्धयति तथैव भक्त्युपहारैः पूर्णः सोमः परमेश्वर उपासकाय भौतिकस्य दिव्यस्य चैश्वर्यस्य समुद्रं वर्धयति ॥३॥
Subject
अथ परमेश्वरः प्रार्थ्यते।