Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1766

1875 Mantra
Devata- पवमानः सोमः Rishi- नृमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡प्तिं꣢ मृजन्ति वे꣣ध꣡सो꣢ गृ꣣ण꣡न्तः꣢ का꣣र꣡वो꣢ गि꣣रा꣢ । ज्यो꣡ति꣢र्जज्ञा꣣न꣢मु꣣꣬क्थ्य꣢꣯म् ॥१७६६॥

स꣡प्ति꣢꣯म् । मृ꣣जन्ति । वेध꣡सः꣢ । गृ꣣ण꣡न्तः꣢ । का꣣र꣡वः꣢ । गि꣣रा꣢ । ज्यो꣡तिः꣢꣯ । ज꣣ज्ञान꣢म् । उ꣣क्थ्य꣢म् ॥१७६६॥

Mantra without Swara
सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा । ज्योतिर्जज्ञानमुक्थ्यम् ॥

सप्तिम् । मृजन्ति । वेधसः । गृणन्तः । कारवः । गिरा । ज्योतिः । जज्ञानम् । उक्थ्यम् ॥१७६६॥

Samveda - Mantra Number : 1766
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(गिरा) वाचा (गृणन्तः) अर्चन्तः। [गृणातिः अर्चतिकर्मा। निघं० ३।१४।] (वेधसः) मेधाविनः। [वेधा इति मेधाविनाम। निघं० ३।१५।] (कारवः) स्तोतारः। [कारुः कर्ता स्तोमानाम्। निरु० ६।५।] (उक्थ्यम्) प्रशंसनीयम् (ज्योतिः) प्रकाशम् (जज्ञानम्) उत्पादयन्तम् (सप्तिम्) सप्तरश्मिं सूर्यमिव विद्यमानं सोमं परमात्मानम् (सृजन्ति) स्वात्मनि प्रकटयन्ति ॥२॥
Essence
सूर्यवत् प्रकाशकस्य परमेश्वरस्योपासनेनोपासकस्यात्मनि दिव्यं ज्योतिः प्रकाशते ॥२॥
Subject
अथ के कीदृशं परमात्मानमाराध्नुवन्तीत्याह।