Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1765

1875 Mantra
Devata- पवमानः सोमः Rishi- नृमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्रा꣢स्य꣣ धा꣡रा꣢ अक्षर꣣न्वृ꣡ष्णः꣢ सु꣣त꣡स्यौज꣢꣯सः । दे꣣वा꣡ꣳ अनु꣢꣯ प्र꣣भू꣡ष꣢तः ॥१७६५॥

प्र꣢ । अ꣣स्य । धा꣡राः꣢꣯ । अ꣢क्षरन् । वृ꣡ष्णः꣢꣯ । सु꣣त꣡स्य꣢ । ओ꣡ज꣢꣯सः । दे꣣वा꣢न् । अ꣡नु꣢꣯ । प्र꣣भू꣡षतः । प्र꣣ । भू꣡ष꣢꣯तः ॥१७६५॥

Mantra without Swara
प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसः । देवाꣳ अनु प्रभूषतः ॥

प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसः । देवान् । अनु । प्रभूषतः । प्र । भूषतः ॥१७६५॥

Samveda - Mantra Number : 1765
(Kauthum) उत्तरार्चिकः: » Prapathak » 9; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 20; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृष्णः) कामवर्षकस्य, (सुतस्य) प्रकटीकृतस्य, (ओजसः) ओजस्विनः [अत्र मतुबर्थकस्य लुक्।] (देवान्) विदुषः उपासकान् (अनु) आनुकूल्येन (प्रभूषतः) दिव्यगुणैः अलङ्कुर्वतः (अस्य) एतस्य (पवमानस्य) सोमस्य पावकस्य रसागारस्य परमात्मनः (धाराः) आनन्दधाराः (प्र अक्षरन्) प्रवर्षन्ति ॥१॥
Essence
मेघात् पवित्रास्तोयधारा इव रसमयात् परमेश्वरात् पवित्राः पाविकाश्च याः परमानन्दधारा वर्षन्ति तासु सर्वैः स्वात्मा स्नपनीयः ॥१॥
Subject
अथानन्दधारा वर्णयति।