Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1764

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣢ नो꣣ वि꣡श्वा꣢ दि꣣वो꣢꣫ वसू꣣तो꣡ पृ꣢थि꣣व्या꣡ अधि꣢꣯ । पु꣣नान꣡ इ꣢न्द꣣वा꣡ भ꣢र ॥१७६४॥

सः꣢ । नः꣣ । वि꣡श्वा꣢꣯ । दि꣣वः꣢ । व꣡सु꣢꣯ । उ꣣त꣢ । उ꣢ । पृथिव्याः꣢ । अ꣡धि꣢꣯ । पु꣣नानः꣢ । इ꣣न्दो । आ꣡ । भ꣢र ॥१७६४॥

Mantra without Swara
स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर ॥

सः । नः । विश्वा । दिवः । वसु । उत । उ । पृथिव्याः । अधि । पुनानः । इन्दो । आ । भर ॥१७६४॥

Samveda - Mantra Number : 1764
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्दो) आनन्दरसेन क्लेदक रसागार जगदीश ! (पुनानः) पवित्रीकुर्वाणः (सः) असौ धनाधीशः त्वम् (दिवः) आत्मलोकाद् (उत उ) अपि च (पृथिव्याः अधि) पार्थिवाद् देहात् (विश्वा वसु) विश्वानि आत्मबलयोगसिद्ध्यारोग्यादीनि वसूनि (नः) अस्मभ्यम् (आ भर) आहर ॥४॥
Essence
परमेशकृपातो वयं दैहिकोन्नतिमात्मिकोन्नतिं च कुर्वाणा अभ्युदयनिःश्रेयसाधिकारिणो भवेम ॥४॥ अस्मिन् खण्डे प्राकृतिकीनामाध्यात्मिकीनां चोषसां, प्राणापानचालितस्य देहरथस्य, परमेश्वरस्य, परमेश्वरकृतानामानन्दवृष्टीनां च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालराम-भगवतीदेवीतनयेन हरिद्वारीयगुरुकुलकाङ्गड़ी-विश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्दसरस्वतीस्वामिकृत-वेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिकेऽष्टमः प्रपाठकः समाप्तिमगात् ॥
Subject
अथ परमेश्वरः प्रार्थ्यते।