Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1763

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ म꣢र्मृजा꣣न꣢ आ꣣यु꣢भि꣣रि꣢भो꣣ रा꣡जे꣢व सुव्र꣣तः꣢ । श्ये꣣नो꣡ न वꣳसु꣢꣯ षीदति ॥१७६३॥

सः꣢ । म꣣र्मृजानः꣢ । आ꣣यु꣡भिः꣢ । इ꣡भः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । सुव्रतः꣢ । सु꣣ । व्रतः꣢ । श्ये꣣नः꣢ । न । व꣡ꣳसु꣢꣯ । सी꣣दति ॥१७६३॥

Mantra without Swara
स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वꣳसु षीदति ॥

सः । मर्मृजानः । आयुभिः । इभः । राजा । इव । सुव्रतः । सु । व्रतः । श्येनः । न । वꣳसु । सीदति ॥१७६३॥

Samveda - Mantra Number : 1763
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
मनुष्यान् (आयुर्भिः२) आयुभिः, आयुर्वर्षैरित्यर्थः (मर्मृजानः) अलङ्कुर्वाणः। [मृजू शौचालङ्कारयोः चुरादिः। लिटः कानच्।] किञ्च (राजा इव) सम्राडिव (इभः) इतभयः (सुव्रतः) सुकर्मा च (सः) पवमानः सोमः पावकः जगदुत्पादकः शुभगुणकर्मप्रेरकः शान्तः परमेश्वरः (वंसु) इच्छुकेषु जनेषु (सीदति) उपविशति। कथमिव ? (श्येनः न) श्येनपक्षी यथा (वंसु) वनेषु (सीदति) उपविशति। [इभेन गतभयेन इति निरुक्तम्। ६।१२। षीदति, संहितायां षत्वं छान्दसम्। वंसु इच्छुकेषु, वनोतिः कान्तिकर्मा। निघं० २।६, यद्वा वंसु वनेषु, वन शब्दस्यान्तलोपश्छान्दसः] ॥३॥ अत्रोपमालङ्कारः। प्रथमा पूर्णोपमा, द्वितीया श्लिष्टा पूर्णोपमा, उभयोः संसृष्टिः ॥३॥
Essence
ये परमात्मानं कामयन्ते तत्प्रीतिपरवशः स तेषां हृदि स्थितः सततं सत्प्रेरणां कुरुते ॥३॥
Subject
अथ परमेश्वरः केषु सीदतीत्याह।