Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1762

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣भि꣢ प्रि꣣या꣢णि꣣ का꣢व्या꣣ वि꣢श्वा꣣ च꣡क्षा꣢णो अर्षति । ह꣡रि꣢स्तुञ्जा꣣न꣡ आयु꣢꣯धा ॥१७६२॥

अ꣣भि꣢ । प्रि꣣या꣡णि꣢ । का꣡व्या꣢꣯ । वि꣡श्वा꣢꣯ । च꣡क्षा꣢꣯णः । अ꣣र्षति । ह꣡रिः꣢꣯ । तु꣣ञ्जानः꣢ । आ꣡यु꣢꣯धा ॥१७६२॥

Mantra without Swara
अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति । हरिस्तुञ्जान आयुधा ॥

अभि । प्रियाणि । काव्या । विश्वा । चक्षाणः । अर्षति । हरिः । तुञ्जानः । आयुधा ॥१७६२॥

Samveda - Mantra Number : 1762
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(हरिः) मनोहरः दोषहर्ता च परमेश्वरः (विश्वा) विश्वानि (प्रियाणि) प्रीतिकराणि (काव्या) हितवचनानि (चक्षाणः) ब्रुवाणः। [चक्षिङ् व्यक्तायां वाचि, अदादिः।] (आयुधा) आयुधानि, कामक्रोधादिशत्रूणां पराजयार्थं रिपुदलनसामर्थ्यानि (तुञ्जानः) प्रयच्छन् (अभि अर्षति) अस्मान् प्रत्यागच्छति, अन्तरात्मं प्रकटी भवति[तुञ्जतिर्दानकर्मा। निघं० ३।२०] ॥२॥
Essence
परमेश्वरोऽस्मभ्यं हितावहान् सन्देशान् प्रेरयति, शत्रूणां पराजयाय बलं च प्रयच्छति ॥२॥
Subject
अथ परमेश्वरः किं करोतीत्युच्यते।