Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1761

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प्र꣢ ते꣣ धा꣡रा꣢ अस꣣श्च꣡तो꣢ दि꣣वो꣡ न य꣢꣯न्ति वृ꣣ष्ट꣡यः꣢ । अ꣢च्छा꣣ वा꣡ज꣢ꣳ सह꣣स्रि꣡ण꣢म् ॥१७६१॥

प्र꣢ । ते꣣ । धा꣡राः꣢꣯ । अ꣣सश्च꣡तः꣢ । अ꣣ । सश्च꣡तः꣢ । दि꣣वः꣢ । न । य꣣न्ति । वृष्ट꣡यः꣢ । अ꣡च्छ꣢꣯ । वा꣡ज꣢꣯म् । स꣣हस्रि꣡ण꣢म् ॥१७६१॥

Mantra without Swara
प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः । अच्छा वाजꣳ सहस्रिणम् ॥

प्र । ते । धाराः । असश्चतः । अ । सश्चतः । दिवः । न । यन्ति । वृष्टयः । अच्छ । वाजम् । सहस्रिणम् ॥१७६१॥

Samveda - Mantra Number : 1761
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम पावक रसागार परमेश्वर ! (असश्चतः) केनापि अप्रतिरुध्यमानस्य२ (ते) तव (धाराः) आनन्दधाराः (दिवः) आकाशात् (वृष्टयः न) वर्षाः इव (सहस्रिणम्) सहस्रसंख्यावन्तम् (वाजम्) बलम् (अच्छ) प्रापयितुम् (प्र यन्ति) उपासकं प्रति प्र यान्ति, (दिवः न) आकाशाद् यथा (वृष्टयः) वर्षाः (वाजम्) अन्नम् (अच्छ) प्रापयितुम् (प्र यन्ति) भूतलं प्रयान्ति। [वाजः इत्यन्ननाम बलनाम च। निघं० २।७,९] ॥१॥
Essence
यथा मेघाद् वर्षाधारा अन्नमुत्पादयितुं क्षेत्रेषु वर्षन्ति तथा जगदीश्वरादानन्दधारा बलमुत्पादयितुमुपासकानामन्तरात्मनि वर्षन्ति ॥१॥
Subject
अथानन्दवर्षा वर्ण्यन्ते।