Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1760

1875 Mantra
Devata- अश्विनौ Rishi- दीर्घतमा औचथ्यः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣣र्वा꣡ङ्त्रि꣢च꣣क्रो꣡ म꣢धु꣣वा꣡ह꣢नो꣣ र꣡थो꣢ जी꣣रा꣡श्वो꣢ अ꣣श्वि꣡नो꣢र्यातु꣣ सु꣡ष्टु꣢तः । त्रि꣣वन्धुरो꣢ म꣣घ꣡वा꣢ वि꣣श्व꣡सौ꣢भगः꣣ शं꣢ न꣣ आ꣡ व꣢क्षद्द्वि꣣प꣢दे꣣ च꣡तु꣢ष्पदे ॥१७६०॥

अ꣣र्वा꣢ङ् । त्रि꣣चक्रः꣢ । त्रि꣣ । चक्रः꣢ । म꣣धुवा꣡ह꣢नः । म꣣धु । वा꣡ह꣢꣯नः । र꣡थः꣢꣯ । जी꣣रा꣡श्वः꣢ । जी꣣र꣢ । अ꣣श्वः । अश्वि꣡नोः꣢ । या꣣तु । सु꣡ष्टु꣢꣯तः । सु । स्तु꣣तः । त्रिवन्धुरः꣢ । त्रि꣣ । वन्धुरः꣢ । म꣣घ꣡वा꣢ । वि꣣श्व꣡सौ꣢भगः । वि꣣श्व꣡ । सौ꣣भगः । श꣢म् । नः꣣ । आ꣢ । व꣣क्षत् । द्विप꣡दे꣢ । द्वि꣣ । प꣡दे꣢꣯ । च꣡तु꣢꣯ष्पदे । च꣡तुः꣢꣯ । प꣣दे ॥१७६०॥

Mantra without Swara
अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः । त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥

अर्वाङ् । त्रिचक्रः । त्रि । चक्रः । मधुवाहनः । मधु । वाहनः । रथः । जीराश्वः । जीर । अश्वः । अश्विनोः । यातु । सुष्टुतः । सु । स्तुतः । त्रिवन्धुरः । त्रि । वन्धुरः । मघवा । विश्वसौभगः । विश्व । सौभगः । शम् । नः । आ । वक्षत् । द्विपदे । द्वि । पदे । चतुष्पदे । चतुः । पदे ॥१७६०॥

Samveda - Mantra Number : 1760
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अश्विनोः) प्राणापानयोः (त्रिचक्रः) त्रीणि आत्ममनःप्राणरूपाणि चक्राणि यस्मिन् सः, (मधुवाहनः) मधुरगतिः, (जीराश्वः) जीराः वेगवन्तः अश्वाः इन्द्रियरूपा यस्मिन् सः। [जीराः इति क्षिप्रनामसु पठितम्। निघं० २।१५।] (सुष्टुतः) सुप्रशंसितः, (त्रिबन्धुरः) त्रयः सत्त्वरजस्तमोरूपाः बन्धुराः बन्धाः यस्मिन् सः, (मघवा) ब्रह्मक्षत्ररूपधनः, (विश्वसौभगः) अखिलसौभाग्योपेतः (रथः) देहशकटः (अर्वाङ्) अस्मदनुकूलम् (यातु) चलतु। किञ्च (नः) अस्माकम् (द्विपदे) मनुष्याद्याय (चतुष्पदे) गवाद्याय च (शम्) सुखम् (आ वक्षत्) आवहतु। [वहेर्लेटि सिबडागमौ] ॥३॥२
Essence
प्राणापानयोरेव सामर्थ्येन मनुष्याणां शरीररथः सबलः सफलक्रियः सज्जनानां हितावहो गवाश्वादीनामुपयोगिनां पशूनां सुखकरो दुष्टानां विध्वंसकरश्च जायते ॥३॥
Subject
अथ पुनरपि तमेव विषयं वर्णयति।