Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 176

1875 Mantra
Devata- इन्द्रः Rishi- गोधा ऋषिका Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
न꣡कि꣢ देवा इनीमसि꣣ न꣡ क्या यो꣢꣯पयामसि । म꣣न्त्र꣡श्रु꣢त्यं चरामसि ॥१७६॥

न꣢ । कि꣣ । देवाः । इनीमसि । न꣢ । कि꣣ । आ꣢ । यो꣣पयामसि । मन्त्रश्रु꣡त्य꣢म् । म꣣न्त्र । श्रु꣡त्य꣢꣯म् । च꣣रामसि ॥१७६॥

Mantra without Swara
नकि देवा इनीमसि न क्या योपयामसि । मन्त्रश्रुत्यं चरामसि ॥

न । कि । देवाः । इनीमसि । न । कि । आ । योपयामसि । मन्त्रश्रुत्यम् । मन्त्र । श्रुत्यम् । चरामसि ॥१७६॥

Samveda - Mantra Number : 176
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
ऋच इन्द्रदेवताकत्वाद् इन्द्रः सम्बोधनीयः। हे इन्द्र परमात्मन् राजन् वा ! हे (देवाः) दिव्यज्ञाना दिव्याचरणाश्च विद्वांसः ! वयम् (नकि२) नैव (इनीमसि३) हिंसाचरणं कुर्मः। ऋग्वेदे मिनीमसि इति पाठादत्र इण् धातुः क्र्यादिर्हिंसार्थः कल्पनीयः। (नकि) नैव च (आ योपयामसि४) विमोहनं, छलछद्माचरणं, वैक्लव्यं वा कुर्मः। युप विमोहने दिवादिरत्र णिजन्तः प्रयुक्तः। अपितु (मन्त्रश्रुत्यम्) मन्त्रश्रुत्या प्रोक्तं मन्त्रश्रुत्यं वेदमन्त्रनिर्दिष्टं कर्म (चरामसि) आचरामः आचरिष्यामश्च। चर गतिभक्षणयोः। इनीमसि, योपयामसि, चरामसि इति सर्वत्र इदन्तो मसि अ० ७।१।४६ इति मस इकारागमः ॥२॥५ अत्र त्रयाणामपि क्रियापदानामेककारकयोगाद् दीपकालङ्कारः। मसि इत्यस्य त्रिश आवर्तनाद् वृत्त्यनुप्रासश्च ॥२॥
Essence
सर्वैर्जनैर्हिंसोपद्रवचौर्यादिकं छलछद्मवञ्चनादिकं च विहाय वेदानुसारेण पवित्रतया जीवनं यापनीयम् ॥२॥
Subject
अथ प्रजाः स्वाचरणशुद्धिं प्रतिजानते।
Footnote
१. ऋ० १०।१३४।७, नकिर्देवा मिनीमसि नकिरायोपयामसि। पक्षेभिरपिकक्षेभिरत्राभि संरभामहे ॥ इति पाठः। २. नकिं नकिः नकि इति त्रीणि नार्थे वर्तन्ते—इति भ०। ३. इनीमसि। मिनातेर्हिंसार्थस्य मकारलोपः—इति वि०। इनातिर्मिनातिना समानार्था हिंसाकर्मा—इति भ०। ४. नकि आयोपयामसि न मिश्रयामः सुष्टुतीर्दुष्टुतीश्च न मिश्रयामः—इति भ०। नकि न च योपयामः अननुष्ठानेन अन्यथानुष्ठानेन वा मोहयामः—इति सा०। ५. हे देवाः न इनीमसि प्राणिबन्धनकर्म पश्वादियागं न कुर्मः, नकि आ योपयामसि यूपनिखननम् अपि न कुर्मः, वृक्षौषध्यादि हिंसामपि न कुर्मः। प्राणिवधं न कुर्मः। किं तर्हि ? मन्त्रश्रुत्यं मन्त्रश्रवणीयं जपाख्यं चरामसि जपं कुर्वन्तश्चरामः। जपमेव कुर्म इत्यर्थः—इति विवरणकृदाशयः।