Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1758

1875 Mantra
Devata- अश्विनौ Rishi- दीर्घतमा औचथ्यः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣡बो꣢ध्य꣣ग्नि꣡र्ज्म उदे꣢꣯ति꣣ सू꣢र्यो꣣ व्यु꣢३꣱षा꣢श्च꣣न्द्रा꣢ म꣣꣬ह्या꣢꣯वो अ꣣र्चि꣡षा꣢ । आ꣡यु꣢क्षाताम꣣श्वि꣢ना꣣ या꣡त꣢वे꣣ र꣢थं꣣ प्रा꣡सा꣢वीद्दे꣣वः꣡ स꣢वि꣣ता꣢꣫ जग꣣त्पृ꣡थ꣢क् ॥१७५८॥

अ꣡बो꣢꣯धि । अ꣣ग्निः꣢ । ज्मः । उत् । ए꣣ति । सू꣡र्यः꣢꣯ । वि । उ꣣षाः꣢ । च꣣न्द्रा꣢ । म꣣ही꣢ । आ꣣वः । अर्चि꣡षा꣢ । आ꣡यु꣢꣯क्षाताम् । अ꣣श्वि꣡ना꣢ । या꣡त꣢꣯वे । र꣡थ꣢꣯म् । प्र । अ꣣सावीत् । देवः꣢ । स꣣विता꣢ । ज꣡ग꣢꣯त् । पृ꣡थ꣢꣯क् ॥१७५८॥

Mantra without Swara
अबोध्यग्निर्ज्म उदेति सूर्यो व्यु३षाश्चन्द्रा मह्यावो अर्चिषा । आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥

अबोधि । अग्निः । ज्मः । उत् । एति । सूर्यः । वि । उषाः । चन्द्रा । मही । आवः । अर्चिषा । आयुक्षाताम् । अश्विना । यातवे । रथम् । प्र । असावीत् । देवः । सविता । जगत् । पृथक् ॥१७५८॥

Samveda - Mantra Number : 1758
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्निः) यज्ञवह्निः (अबोधि) यज्ञकुण्डे प्रबुद्धोऽस्ति। प्राच्यां दिशि (ज्मः) पृथिव्याः। [ज्मा पृथिवीनामसु पठितम्। निघं० १।१। ज्मायाः इति प्राप्ते आकारलोपश्छान्दसः।] (सूर्यः) भास्करः (उदेति) उदयं भवति (चन्द्रा) आह्लादप्रदा (मही) महती (उषाः) प्रभातसन्ध्या (अर्चिषा) प्रभया (वि आवः) विवृतवती स्वात्मानम्। [विपूर्वाद् वृणोतेर्लुङि ‘मन्त्रे घसह्वर०’ अ० २।४।८० इति च्लेर्लुक्। ‘छन्दस्यपि दृश्यते’ अ० ६।४।७३ इत्यनजादित्वे आडागमः।] (अश्विना२) अश्विनौ प्राणापानौ (यातवे) यातुम्। [यातेस्तुमर्थे तवेन् प्रत्ययः।] (रथम्) देहशकटम् (आयुक्षाताम्) आयोजयताम्। (देवः) प्रकाशकः (सविता) आदित्यः (जगत्) जडचेतनात्मकं सर्वं संसारम् (पृथक्) विभक्तरूपेण (प्रासावीत्) आविर्भावितवान् ॥१॥३ अत्र स्वभावोक्तिरलङ्कारः ॥१॥
Essence
प्रभातस्य रमणीये स्वच्छे स्फूर्तिप्रदायके काले सर्वैः स्त्रीपुरुषैः प्राणायामविधिनाऽष्टाङ्गो योगोऽभ्यसनीयः ॥१॥
Subject
तत्रादौ प्रभातकालं वर्णयति।