Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1757

1875 Mantra
Devata- उषाः Rishi- गोतमो राहूगणः Chhand- जगती Swara- निषादः
Mantra with Swara
अ꣡र्च꣢न्ति꣣ ना꣡री꣢र꣣प꣢सो꣣ न꣢ वि꣣ष्टि꣡भिः꣢ समा꣣ने꣢न꣣ यो꣡ज꣢ने꣣ना꣡ प꣢रा꣣व꣡तः꣢ । इ꣢षं꣣ व꣡ह꣢न्तीः सु꣣कृ꣡ते꣢ सु꣣दा꣡न꣢वे꣣ वि꣢꣫श्वेदह꣣ य꣡ज꣢मानाय सु꣣न्व꣢ते ॥१७५७॥

अ꣡र्च꣢꣯न्ति । ना꣡रीः꣢꣯ । अ꣣प꣡सः꣢ । न । वि꣣ष्टि꣡भिः꣢ । स꣣माने꣡न꣢ । स꣣म् । आने꣡न꣢ । यो꣡ज꣢꣯नेन । आ । प꣣राव꣡तः꣢ । इ꣡ष꣢꣯म् । व꣡ह꣢꣯न्तीः । सु꣣कृ꣡ते꣢ । सु꣣ । कृ꣡ते꣢꣯ । सु꣣दा꣡न꣢वे । सु꣣ । दा꣡न꣢꣯वे । वि꣡श्वा꣢꣯ । इत् । अ꣡ह꣢꣯ । य꣡ज꣢꣯मानाय । सु꣣न्वते꣢ ॥१७५७॥

Mantra without Swara
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः । इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥

अर्चन्ति । नारीः । अपसः । न । विष्टिभिः । समानेन । सम् । आनेन । योजनेन । आ । परावतः । इषम् । वहन्तीः । सुकृते । सु । कृते । सुदानवे । सु । दानवे । विश्वा । इत् । अह । यजमानाय । सुन्वते ॥१७५७॥

Samveda - Mantra Number : 1757
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अपसः) अपस्विन्यः कर्मवत्यः। [अत्र मतुबर्थकस्य लुक्। अपः इति कर्मनाम। निघं० २।१।] (नारीः न) नार्यो यथा। [अत्र जसि छान्दसः पूर्वसवर्णदीर्घः।] (आ परावतः) दूरदेशादपि आगत्य (समानेन योजनेन) समानया योजनया (विष्टिभिः) कर्मभिः। [विष्ट्वी इत्यस्य कर्मनामसु। निघं० २।१ पाठाद् विष् धातुः करोत्यर्थः। विष्टी इत्यपि पाठान्तरे कर्मनामसु पठितम्।] (सुकृते) सुकर्मणे धर्मात्मने, (सुदानवे) सुष्ठु दानकरणशीलाय जनाय (इषम्) अन्नादिकम् वस्तु, (सुन्वते) भक्तिरसमभिषुण्वते (यजमानाय) याज्ञिकाय पुरुषाय च (अह) निश्चयेन (विश्वा इत्) विश्वानि एव अभीष्टानि। [अत्र ‘शेश्छन्दसि बहुलम्’ अ० ६।१।७० इत्यनेन शसः शेर्लोपः।] (वहन्तीः) प्रापयन्त्यः, तम् (अर्चन्ति) सत्कुर्वन्ति, तथैव इमाः प्राकृतिक्यः आध्यात्मिक्यश्च उषसः अपि कुर्वन्ति ॥३॥२ अत्रोपमालङ्कारः ॥३॥
Essence
ये सुकर्माणो धर्मात्मानः परोपकारिणः परमेश्वरोपासका यज्ञकर्तारश्च भवन्ति तान् यथा नार्यः सत्कुर्वन्ति तथैव निशान्तेऽरुणेन प्रकाशेनाविर्भवन्त्यः प्राकृतिक्य उषसो योगमार्गेऽनुभूता ज्योतिष्मत्यः प्रज्ञाश्चापि तानभिनन्दन्ति, प्रेयोमार्गे श्रेयोमार्गे च तेषां साहाय्यमातन्वन्तीत्यर्थः ॥३॥
Subject
अथ पुनरपि सैवोषा वर्ण्यते।