Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1755

1875 Mantra
Devata- उषाः Rishi- गोतमो राहूगणः Chhand- जगती Swara- निषादः
Mantra with Swara
ए꣣ता꣢ उ꣣ त्या꣢ उ꣣ष꣡सः꣢ के꣣तु꣡म꣢क्रत꣣ पू꣢र्वे꣣ अ꣢र्धे꣣ र꣡ज꣢सो भा꣣नु꣡म꣢ञ्जते । नि꣣ष्कृण्वाना꣡ आयु꣢꣯धानीव धृ꣣ष्ण꣢वः꣣ प्र꣢ति꣣ गा꣡वोऽरु꣢꣯षीर्यन्ति मा꣣त꣡रः꣢ ॥१७५५॥

ए꣣ताः꣢ । उ꣣ । त्याः꣢ । उ꣣ष꣡सः꣢ । के꣣तु꣢म् । अ꣣क्रत । पू꣡र्वे꣢꣯ । अ꣡र्धे꣢꣯ । र꣡ज꣢꣯सः । भा꣣नु꣢म् । अ꣣ञ्जते । निष्कृण्वा꣢नाः । निः꣣ । कृण्वानाः꣢ । आ꣡यु꣢꣯धानि । इ꣣व । धृष्ण꣡वः꣢ । प्र꣡ति꣢꣯ । गा꣡वः꣢꣯ । अ꣡रु꣢꣯षीः । य꣣न्ति । मात꣡रः꣢ ॥१७५५॥

Mantra without Swara
एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते । निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥

एताः । उ । त्याः । उषसः । केतुम् । अक्रत । पूर्वे । अर्धे । रजसः । भानुम् । अञ्जते । निष्कृण्वानाः । निः । कृण्वानाः । आयुधानि । इव । धृष्णवः । प्रति । गावः । अरुषीः । यन्ति । मातरः ॥१७५५॥

Samveda - Mantra Number : 1755
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एताः उ) इमाः खलु (त्याः) ताः (उषसः) प्रभातसंध्याः (केतुम्) प्रज्ञानम् (अक्रत) अकृषत। [करोतेर्लुङि ‘मन्त्रे घसह्वरणश... कृगमिजनिभ्यो लेः’ अ० २।४।८० इति च्लेर्लुक्।] (रजसः) अन्तरिक्षलोकस्य (पूर्वे अर्धे) प्राचीने दिग्भागे (भानुम्) प्रकाशम् (अञ्जते) व्यक्तीकुर्वन्ति। (धृष्णवः) शत्रुधर्षणशीला योद्धारः (आयुधानि इव) शस्त्रास्त्राणि यथा निष्कृण्वन्ति तेजयन्ति एवं (निष्कृण्वानाः) भूप्रदेशान् स्वभासा प्रकाशयन्त्यः, (गावः) गमनशीलाः, (अरुषीः) आरोचमानाः (मातरः) मातृरूपाः उषसः (प्रति यन्ति) गच्छन्त्यागच्छन्ति च ॥१॥२ यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—[एतास्ता उषसः केतुमकृषत प्रज्ञानम्। एकस्या एव पूजनार्थे बहुवचनं स्यात्। पूर्वे अर्धे अन्तरिक्षलोकस्य समञ्जते भानुना। निष्कृण्वाना आयुधानीव धृष्णवः। निरित्येष समित्येतस्य स्थाने ‘एमीदेषां निष्कृतं जारिणीव’ (ऋ० १०।३४।५) इत्यपि निगमो भवति। प्रतियन्ति गावो गमनात्, अरुषीरारोचनात्, मातरो भासो निर्मात्र्यः। निरु० १२।७]। अत्रोषःसु मातृत्वारोपाद् रूपकालङ्कारः, ‘निष्कृण्वाना आयुधानीव धृष्णवः’ इत्युपमा। उभावपि स्वभावोक्तेरङ्गमित्यङ्गाङ्गिभावरूपः सङ्करः। प्राकृतिक्या खलूषसाऽऽध्यात्मिकी ह्युषा व्यज्यते ॥१॥
Essence
यथा प्राकृतिक्युषा रात्रेरन्धकारं विच्छिद्य भुवि प्रकाशं जनयति तथाध्यात्मिकी ज्योतिष्मती प्रज्ञा तमोभावं निरस्य चित्तप्रसादं जनयति ॥१॥
Subject
अथोषसो वर्णयति।