Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1754

1875 Mantra
Devata- अश्विनौ Rishi- अत्रिर्भौमः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ꣣ता꣡ या꣢तꣳ संग꣣वे꣢ प्रा꣣त꣡रह्नो꣢꣯ म꣣ध्य꣡न्दि꣢न꣣ उ꣡दि꣢ता꣣ सू꣡र्य꣢स्य । दि꣢वा꣣ न꣢क्त꣣म꣡व꣢सा꣣ श꣡न्त꣢मेन꣣ ने꣡दानीं꣢꣯ पी꣣ति꣢र꣣श्वि꣡ना त꣢꣯तान ॥१७५४॥

उत꣢ । आ । या꣣तम् । संगवे꣢ । स꣣म् । गवे꣢ । प्रा꣣तः꣢ । अ꣡ह्नः꣢꣯ । अ । ह्नः꣣ । मध्य꣡न्दि꣢ने । उ꣡दि꣢꣯ता । उत् । इ꣣ता । सू꣡र्य꣢꣯स्य । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । अ꣡व꣢꣯सा । श꣡न्त꣢꣯मेन । न । इ꣣दा꣡नी꣢म् । पी꣣तिः꣢ । अ꣣श्वि꣡ना꣢ । आ । त꣣तान ॥१७५४॥

Mantra without Swara
उता यातꣳ संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य । दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥

उत । आ । यातम् । संगवे । सम् । गवे । प्रातः । अह्नः । अ । ह्नः । मध्यन्दिने । उदिता । उत् । इता । सूर्यस्य । दिवा । नक्तम् । अवसा । शन्तमेन । न । इदानीम् । पीतिः । अश्विना । आ । ततान ॥१७५४॥

Samveda - Mantra Number : 1754
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अश्विना) अश्विनौ प्राणापानौ ! युवाम् (अह्नः) दिवसस्य (सङ्गवे) संगच्छन्ते गावो यस्मिन् दोहनार्थं स संगवः रात्रेः परभागकालो ब्राह्ममुहूर्तं वा तस्मिन्, (प्रातः) प्रातःकाले, (मध्यन्दिने) मध्याह्ने (उत) अपि च (सूर्यस्य) आदित्यस्य (उदिता) उदितौ अस्तमनकाले, (दिवा) दिने, (नक्तम्) रात्रौ च (शन्तमेन) सुखयितृतमेन (अवसा) रक्षणेन (आयातम्) गमनागमने कुरुतम्। (इदानीम्) अधुना (पीतिः) मृत्युः। [पीयतिर्हिंसाकर्मा। निरु० ४।२५।] (न आ ततान) स्वपाशं न विस्तारयेत्, नास्मान् हन्यादिति भावः। [तनु विस्तारे, विध्यर्थे लिट्] ॥३॥२
Essence
विधिपूर्वकं प्रातः सायं च कृतः प्राणायामो दिवानिशं सर्वेष्वेव कालेषु कष्टान्मृत्योश्च प्राणायामिनं त्रायते ॥३॥ अस्मिन् खण्डे यज्ञाग्नेः परमात्मन उपास्योपासकयोरुषस- आध्यात्मिक्याः प्रभाया रात्र्युषसोरपरापराविद्ययोः प्राणापानयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनरपि प्राणापानयोर्विषयमाह।