Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1753

1875 Mantra
Devata- अश्विनौ Rishi- अत्रिर्भौमः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
न꣡ स꣢ꣳस्कृ꣣तं꣡ प्र मि꣢꣯मीतो꣣ ग꣢मि꣣ष्ठा꣡न्ति꣢ नू꣣न꣢म꣣श्वि꣡नोप꣢꣯स्तुते꣣ह꣢ । दि꣡वा꣢भिपि꣣त्वे꣢ऽव꣣सा꣡ग꣢मिष्ठा꣣ प्र꣡त्यव꣢꣯र्त्तिं दा꣣शु꣢षे꣣ श꣡म्भ꣢विष्ठा ॥१७५३॥

न । स꣣ꣳस्कृत꣢म् । स꣣म् । कृत꣢म् । प्र । मि꣣मीतः । ग꣡मि꣢꣯ष्ठा । अ꣡न्ति꣢꣯ । नू꣣न꣢म् । अ꣣श्वि꣡ना꣢ । उ꣡प꣢꣯स्तुता । उ꣡प꣢꣯ । स्तु꣣ता । इह । दि꣡वा꣢꣯ । अ꣡भिपित्वे꣢ । अ꣢भि । पित्वे꣢ । अ꣡व꣢꣯सा । आ꣡ग꣢꣯मिष्ठा । आ । ग꣣मिष्ठा । प्र꣡ति꣢꣯ । अ꣡व꣢꣯र्तिम् । दा꣣शु꣡षे꣢ । श꣡म्भ꣢꣯विष्ठा । शम् । भ꣣विष्ठा ॥१७५३॥

Mantra without Swara
न सꣳस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥

न । सꣳस्कृतम् । सम् । कृतम् । प्र । मिमीतः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपस्तुता । उप । स्तुता । इह । दिवा । अभिपित्वे । अभि । पित्वे । अवसा । आगमिष्ठा । आ । गमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्भविष्ठा । शम् । भविष्ठा ॥१७५३॥

Samveda - Mantra Number : 1753
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उपस्तुता) उपस्तुतौ, महत्त्ववर्णनेन प्रशंसितौ (नूनम्) निश्चयेन (इह) अस्मिन् देहे (अन्ति) अन्तिके (गमिष्ठा) अतिशयेन कृतगमनागमनौ (अश्विना) प्राणापानौ (संस्कृतम्) कृतसंस्कारं जीवनयज्ञम् (न प्र मिमीतः) न प्र हिंस्तः। [माङ् माने शब्दे च जुहोत्यादिः प्रपूर्वोऽत्र हिंसाया वर्तते परस्मैपदं व्यत्ययेन।] (दिवा अभिपित्वे) दिवसे प्राप्ते, प्रातःकाले इत्यर्थः (अवसा) रक्षणेन सह (आगमिष्ठा) आगमिष्ठौ अतिशयेन आगन्तारौ प्राणापानौ (अवर्तिम्) आधिव्याधिदुर्गतिदुर्बलतादिकम् (प्रति) प्रतिरुध्य (दाशुषे) हविर्दत्तवते अग्निहोत्रिणे (शं भविष्ठा) अतिशयेन सुखस्य भावयितारौ, जायेते इति शेषः। [गमिष्ठा, अश्विना इत्यादौ सर्वत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन प्रथमाद्विवचनस्याकारादेशः] ॥२॥२
Essence
सम्यक् सेवितौ प्राणापानौ मनुष्यं रोगादिपाशेभ्य उद्धृत्य दीर्घायुषं कुरुतः ॥२॥
Subject
अथ प्राणापानयोर्महत्त्वमुच्यते।