Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1751

1875 Mantra
Devata- उषाः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स꣣मानो꣢꣫ अध्वा꣣ स्व꣡स्रो꣢रन꣣न्त꣢꣫स्तम꣣न्या꣡न्या꣢ चरतो दे꣣व꣡शि꣢ष्टे । न꣡ मे꣢थेते꣣ न꣡ त꣢स्थतुः सु꣣मे꣢के꣣ न꣢क्तो꣣षा꣢सा꣣ स꣡म꣢नसा꣣ वि꣡रू꣢पे ॥१७५१॥

स꣣मानः꣢ । स꣣म् । आनः꣢ । अ꣡ध्वा꣢꣯ । स्व꣡स्रोः꣢꣯ । अ꣣नन्तः꣣ । अ꣣न् । अन्तः꣢ । तम् । अ꣣न्या꣡न्या꣢ । अ꣣न्या꣢ । अ꣣न्या꣢ । चरतः । देव꣡शि꣢ष्टे । दे꣣व꣢ । शि꣣ष्टेइ꣡ति꣢ । न । मे꣣थेतेइ꣡ति꣢ । न । त꣣स्थतुः । सुमे꣡के꣢ । सु꣣ । मे꣣के꣢꣯इ꣡ति꣢ । न꣡क्ता꣢꣯ । उ꣣षा꣡सा꣢ । स꣡म꣢꣯नसा । स । म꣣नसा । वि꣡रू꣢꣯पे । वि । रू꣣पेइ꣡ति꣢ ॥१७५१॥

Mantra without Swara
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे । न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥

समानः । सम् । आनः । अध्वा । स्वस्रोः । अनन्तः । अन् । अन्तः । तम् । अन्यान्या । अन्या । अन्या । चरतः । देवशिष्टे । देव । शिष्टेइति । न । मेथेतेइति । न । तस्थतुः । सुमेके । सु । मेकेइति । नक्ता । उषासा । समनसा । स । मनसा । विरूपे । वि । रूपेइति ॥१७५१॥

Samveda - Mantra Number : 1751
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(स्वस्रोः) भगिन्योः अनयोः नक्तोषसोः (समानः) एक एव (अनन्तः) असीमः (अध्वा) मार्गः वर्तते। (तम्) आकाशरूपम् अध्वानम् (देवशिष्टे) जगदीश्वरेण अनुशिष्टे शिक्षिते (अन्यान्या) परस्परं सम्बद्धे (चरतः) विचरतः। इमे (सुमेके२) सुष्ठु नियमेषु प्रक्षिप्ते। [मेकः, डुमिञ् प्रक्षेपणे धातोर्बाहुलकादौणादिकः कन् प्रत्ययः। शोभनो मेकः नियमेषु प्रक्षेपणं ययोस्ते।] (विरूपे) कृष्णगौररूपविभिन्नवर्णे, (समनसा) समानमनस्के इव (नक्तोषसा) रात्र्युषसौ (न मेथेते) न परस्परं हिंस्तः। [मेथृ मेधाहिंसनयोः भ्वादिः] (न तस्थतुः) न कार्याद् विरमतः, प्रत्युत आसृष्टेः विश्रामप्रदानप्रकाशप्रदानरूपस्वस्व- कार्यसंलग्ने स्तः ॥३॥३ अत्र नक्तोषसोः स्वसृत्वारोपाद् रूपकालङ्कारः। ‘समनसा’ इति लुप्तोपमम् ॥३॥
Essence
नक्तोषर्वदपरापराविद्ये अपि मनुष्यैः सामञ्जस्येन गृह्येतां चेत्तर्हि निश्चयेनाभ्युदयनिःश्रेयससिद्धिर्भवितुं शक्नोति ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।