Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1750

1875 Mantra
Devata- उषाः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
रु꣡श꣢द्वत्सा꣣ रु꣡श꣢ती श्वे꣣त्या꣢गा꣣दा꣡रै꣢गु कृ꣣ष्णा꣡ सद꣢꣯नान्यस्याः । स꣣मान꣡ब꣢न्धू अ꣣मृ꣡ते꣢ अनू꣣ची꣢꣫ द्यावा꣣ व꣡र्णं꣢ चरत आमिना꣣ने꣢ ॥१७५०॥

रु꣡श꣢꣯द्वत्सा । रु꣡श꣢꣯त् । व꣣त्सा । रु꣡श꣢꣯ती । श्वे꣣त्या꣢ । आ । अ꣣गात् । आ꣡रै꣢꣯क् । उ꣣ । कृष्णा꣢ । स꣡द꣢꣯नानि । अ꣣स्याः । समान꣡ब꣢꣯न्धू । समान꣢ । ब꣣न्धूइ꣡ति꣢ । अ꣣मृ꣡ते꣢ । अ꣣ । मृ꣢ते꣢꣯इ꣡ति꣢ । अ꣣नूची꣡इति꣢ । द्या꣡वा꣢꣯ । व꣡र्ण꣢꣯म् । च꣣रतः । आमिनाने꣢ । आ꣣ । मिनाने꣡इति꣢ ॥१७५०॥

Mantra without Swara
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥

रुशद्वत्सा । रुशत् । वत्सा । रुशती । श्वेत्या । आ । अगात् । आरैक् । उ । कृष्णा । सदनानि । अस्याः । समानबन्धू । समान । बन्धूइति । अमृते । अ । मृतेइति । अनूचीइति । द्यावा । वर्णम् । चरतः । आमिनाने । आ । मिनानेइति ॥१७५०॥

Samveda - Mantra Number : 1750
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(रुशद्वत्सा) रुशद् ज्वलितः वत्सः सूर्यरूपौ यस्याः सा, (रुशती) रक्तवर्णा, (श्वेत्या) उज्ज्वला उषाः (आगात्) आगतास्ति। (कृष्णा) कृष्णवर्णा रात्रिः (अस्याः) उषसः (सदनानि) स्थानानि (आरैक् उ) अरिचत् खलु। इमे रात्युषसौ (समानबन्धू) समानः एकः सूर्यरूपः बन्धुर्ययोः तादृश्यौ, (अमृते) प्रवाहरूपेण विनाशरहिते, (अनूची) अन्योन्यम् अनुवर्तमाने, (द्यावा) द्यावौ स्वस्वप्रकाशेन प्रकाशिते, (वर्णम्) स्वस्वरूपम् (आमिनाने) अन्योन्यस्मिन् प्रवेशयन्त्यौ। [मिनातिः गतिकर्मा। निघं० २।१४, शानच्।] (चरतः) गगनप्राङ्गणे विचरतः ॥२॥२ यास्कमुनिरिमं मन्त्रमेवं व्याख्यातवान्—[रुशद्वत्सा सूर्यवत्सा। रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः। सूर्यमस्या वत्समाह, साहचर्याद् रसहरणाद् वा। रुशती श्वेत्यागात्—श्वेत्या श्वेततेः। अरिचत् कृष्णा सदनान्यस्याः, कृष्णवर्णा रात्रिः। कृष्णं कृष्यतेः, निकृष्टो वर्णः। अथैने संस्तौति—समानबन्धू समानबन्धने। अमृते अमरणधर्माणौ। अनूची अनूच्यौ इतरेतरमभिप्रेत्य। द्यावा वर्णं चरतः, ते एव द्यावौ द्योतनात्। अपि वा द्यावा चरतः, तया सह चरत इति स्यात्। आमिनाने आमिन्वाने, अन्योन्यस्याध्यात्मं कुर्वाणे। निरु० २।२०। इति]। अत्र स्वभावोक्तिरलङ्कारः। उषोरात्र्योः कृष्णगौरभगिन्योर्व्यवहार- समारोपात् समासोक्तिरपि। तयोरङ्गाङ्गिभावसङ्करः। उषोरात्रिवर्णनेनाऽपरापराविद्ययोरर्थोऽपि व्यज्यते ॥२॥
Essence
यथा रात्र्यनन्तरं रोचमानसूर्यरूपवत् सोषाः समागच्छति तथैवापराविद्यानन्तरं ज्योतिष्मद्ब्रह्मवत्सा परा विद्या समायाति। रात्र्युषर्वदिमे उभे अपि विद्ये मनुष्याणां कल्याणकर्यौ स्तः ॥२॥
Subject
अत रात्र्युषर्वर्णनेनापरापराविद्ये प्रकाशयति।