Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 175

1875 Mantra
Devata- इन्द्रः Rishi- देवजामयः इन्द्रमातरः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
ई꣣ङ्ख꣡य꣢न्तीरप꣣स्यु꣢व꣣ इ꣡न्द्रं꣢ जा꣣त꣡मुपा꣢꣯सते । व꣣न्वाना꣡सः꣢ सु꣣वी꣡र्य꣢म् ॥१७५॥

ई꣣ङ्ख꣡य꣢न्तीः । अ꣣पस्यु꣡वः꣢ । इ꣡न्द्र꣢꣯म् । जा꣣त꣢म् । उ꣡प꣢꣯ । आ꣣सते । वन्वाना꣡सः꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥१७५॥

Mantra without Swara
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । वन्वानासः सुवीर्यम् ॥

ईङ्खयन्तीः । अपस्युवः । इन्द्रम् । जातम् । उप । आसते । वन्वानासः । सुवीर्यम् । सु । वीर्यम् ॥१७५॥

Samveda - Mantra Number : 175
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ईङ्खयन्तीः२) हर्षेण उत्प्लवन्त्यः। ईखि गतौ भ्वादिः। ईङ्खते गतिकर्मा। निघं०। २।१४। वेदे चुरादिरपि। शतरि स्त्रियां जसि रूपम्। ईङ्खयन्त्यः इति प्राप्ते वा छन्दसि। अ० ६।१।१०६ इति नियमेन पूर्वसवर्णदीर्घः। अत एव (अपस्युवः) अपांसि कर्माणि आत्मनः कामयमानाः प्रजाः। अपस् इति कर्मनाम। निघं० २।१। ततः क्यचि क्याच्छन्दसि अ० ३।२।१६० इति उ प्रत्ययः। (सुवीर्यम्) श्रेष्ठवीर्योपेतमैश्वर्यम्। शोभनं वीर्यं यत्र तादृशमिति बहुव्रीहौ वीरवीर्यौ च। अ० ६।२।१२० इत्युत्तरपदस्याद्युदात्तत्वम्। (वन्वानासः) इच्छन्त्यः याचमानाः वा सत्यः। वनोतिः इच्छतिकर्मा। निघं० २।६। वनु याचने वा। ततः शानच्। जसि आज्जसेरसुक्। अ० ७।१।५० इत्यसुगागमः। (जातम् इन्द्रम्) हृदये प्रादुर्भूतं परमेश्वरम् निर्वाचितम् अभिषिक्तं च राजानं वा (उपासते) उपस्थानेन अभिनन्दन्ति, स्वागतं ब्रुवन्ति, सेवन्ते वा ॥१॥ अत्र अर्थश्लेषालङ्कारः ॥१॥
Essence
यथा राष्ट्रस्य प्रजाभिरैश्वर्यप्राप्तये राजा सेव्यते, तथैव भौतिकाध्यात्मिकसम्पत्प्राप्तये परमेश्वर उपासनीयः ॥१॥
Subject
तत्राद्ये मन्त्रे इन्द्रनाम्ना परमेश्वरस्योपासनां नृपस्य चाभिनन्दनं वर्ण्यते।
Footnote
१. ऋ० १०।१५३।१, अथ० २०।९३।४। २. ईङ्खयन्त्यः गच्छन्त्यः—इति वि०। प्रेरयन्त्यः इन्द्रम् इतस्ततः चालयन्त्यः—इति भ०। गच्छन्त्यः स्तुत्यादिभिः इन्द्रं प्राप्नुवन्त्यः—इति सा०।