Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1749

1875 Mantra
Devata- उषाः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इ꣣द꣢꣫ꣳ श्रेष्ठं꣣ ज्यो꣡ति꣢षां꣣ ज्यो꣢ति꣣रा꣡गा꣢च्चि꣣त्रः꣡ प्र꣢के꣣तो꣡ अ꣢जनिष्ट꣣ विभ्वा꣢ । य꣢था꣣ प्र꣡सू꣢ता सवि꣣तुः꣢ स꣣वा꣢यै꣣वा꣢꣫ रात्र्यु꣣ष꣢से꣣ यो꣡नि꣢मारैक् ॥१७४९॥

इ꣣द꣢म् । श्रे꣡ष्ठ꣢꣯म् । ज्यो꣡ति꣢꣯षाम् । ज्यो꣡तिः꣢꣯ । आ । अ꣣गात् । चित्रः꣢ । प्र꣣केतः꣢ । प्र꣣ । केतः꣢ । अ꣣जनिष्ट । वि꣡भ्वा꣢꣯ । वि । भ्वा꣣ । य꣡था꣢꣯ । प्र꣡सू꣢꣯ता । प्र । सू꣢ता । सवितुः꣢ । स꣣वा꣡य꣢ । ए꣣व꣢ । रा꣡त्री꣢꣯ । उ꣣ष꣡से꣢ । यो꣡नि꣢꣯म् । आ꣣रैक् ॥१७४९॥

Mantra without Swara
इदꣳ श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥

इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । आ । अगात् । चित्रः । प्रकेतः । प्र । केतः । अजनिष्ट । विभ्वा । वि । भ्वा । यथा । प्रसूता । प्र । सूता । सवितुः । सवाय । एव । रात्री । उषसे । योनिम् । आरैक् ॥१७४९॥

Samveda - Mantra Number : 1749
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इदम्) एतत् (ज्योतिषाम्) अग्निविद्युदादीनां मध्ये (श्रेष्ठम्) प्रशस्यतमम् (ज्योतिः) उषाः (आगात्) आगमत्। (चित्रः) अद्भुतः (विभ्वा) विभुः। [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेराकारादेशः।] (प्रकेतः) प्रकाशः (अजनिष्ट) उत्पन्नोऽस्ति। (यथा) येन प्रकारेण (प्रसूता) उत्पन्ना एषा उषाः (सवितुः) आदित्यस्य (सवाय) उत्पत्तये भवति (एवा) एवम् (रात्री) निशा। [अत्र ‘रात्रेश्चाजसौ’ अ० ४।१।३९ इति रात्रिशब्दान्ङीप्।] (उषसे) उषसो जन्मार्थम् (योनिम्) अन्तरिक्षम् (आरैक्) अरिचत्। [रिचिर् विरेचने, लुङि ‘इरितो वा’ अ० ३।१।५७ इति च्लेर्वैकल्पिकेऽङि ‘अरिचत्, अरैक्षीत्’ इति प्राप्ते छान्दसश्च्लेर्लुक्] ॥१॥२ यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत्। चित्रं प्रकेतनं प्रज्ञाततमम् अजनिष्ट विभूततमम्। यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्य, एवं रात्र्युषसे योनिमरिचत् स्थानम्। निरु० ६।१९।]। अत्रोपमालङ्कारः स्वभावोक्तिश्च। ‘ज्योति’ इत्यस्यावृत्तौ यमकम्, ‘सवि, सवा’ इत्यत्र छेकानुप्रासः। प्राकृतिक्या उषसो वर्णनेनाध्यात्मिक्युषा व्यज्यते ॥१॥
Essence
यथा रात्र्यन्धकारं समाप्य ज्योतिष्मत्युषा गगने प्रादुर्भवति ज्योतिष्मत्तरं सूर्यं चाविर्भावयति तथैवाविद्याया गाढं तमो विच्छिद्य ज्योतिष्मत्यध्यात्मप्रभा प्रादुर्भूय ज्योतिष्मत्तमां परमात्मप्रभां प्रकटयति ॥१॥
Subject
अथोषर्दृष्टान्तेनाध्यात्मिकीं प्रभां वर्णयति।