Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1747

1875 Mantra
Devata- अग्निः Rishi- बुधगविष्ठिरावात्रेयौ Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣡बो꣢धि꣣ हो꣡ता꣢ य꣣ज꣡था꣢य दे꣣वा꣢नू꣣र्ध्वो꣢ अ꣣ग्निः꣢ सु꣣म꣡नाः꣢ प्रा꣣त꣡र꣢स्थात् । स꣡मि꣢द्धस्य꣣ रु꣡श꣢ददर्शि꣣ पा꣡जो꣢ महा꣢न्दे꣣व꣡स्तम꣢꣯सो꣣ नि꣡र꣢मोचि ॥१७४७॥

अ꣡बो꣢꣯धि । हो꣡ता꣢꣯ । य꣣ज꣡था꣢य । दे꣣वा꣢न् । ऊ꣣र्ध्वः꣢ । अ꣣ग्निः꣢ । सु꣣म꣡नाः꣢ । सु꣣ । म꣡नाः꣢꣯ । प्रा꣣तः꣢ । अ꣣स्थात् । स꣡मि꣢꣯द्धस्य । सम् । इ꣣द्धस्य । रु꣡श꣢꣯त् । अ꣡दर्शि । पा꣡जः꣢꣯ । म꣣हा꣢न् । दे꣣वः꣢ । त꣡म꣢꣯सः । निः । अ꣣मोचि ॥१७४७॥

Mantra without Swara
अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् । समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥

अबोधि । होता । यजथाय । देवान् । ऊर्ध्वः । अग्निः । सुमनाः । सु । मनाः । प्रातः । अस्थात् । समिद्धस्य । सम् । इद्धस्य । रुशत् । अदर्शि । पाजः । महान् । देवः । तमसः । निः । अमोचि ॥१७४७॥

Samveda - Mantra Number : 1747
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(होता) होमसाधनः अग्निः (यजथाय) यजनाय (देवान्) विदुषो यजमानान् (अबोधि) प्रबोधयति। (प्रातः) प्रभाते (सुमनाः) शोभनानि मनांसि यस्मात् तादृशः (अग्निः) यज्ञाग्निः (ऊर्ध्वः) ऊर्ध्वोन्मुखः (अस्थात्) तिष्ठति। (समिद्धस्य) प्रदीप्तस्य अस्य यज्ञाग्नेः (रुशत्) रोचमानम् (पाजः) रूपम् (अदर्शि) दृश्यते। (महान्) महिमोपेतः (देवः) प्रकाशकः एषोऽग्निः, (तमसः) अन्धकारात् (निरमोचि) निर्मोचितवानस्ति ॥२॥२ अत्रापि स्वभावोक्तिरलङ्कारः ॥२॥
Essence
यथा प्रज्वलित ऊर्ध्वज्वालो रोचमानो यज्ञाग्निस्तमसो निर्मोचयति तथैव देदीप्यमान ऊर्ध्वयात्रो रोचिष्णुरात्मा मनोबुद्ध्यादीन् तमोगुणाद् निर्मोचयति ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।